________________
१७०
काश्यपशिल्पे पञ्चाशत्तमः पटलः ।
सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् । त्रयोविंशाधिकं यावच्छतान्तं त्रिभिरङ्गुलैः || ३९ ॥ विम्बमानं तु कर्तव्यमादौ द्वाभ्यां परार्थकम् । गृहे वाऽऽत्मार्थविश्वानां मानमात्र गुलेन तु ॥ ४० ॥ कर्तव्यमन्यथा श्ञ्चे(घे)तु कर्तव्ये कर्तृनाशनम् । अङ्गुले निर्मितं बिम्बं सर्वजात्यकिं परम् ।। ४१ । अङ्गुलाङ्गुलविध्याभि: आ(वृद्धया त्रिरा)यादिषट्शुभेक्षणम् । त्रिषटङ्गुल क्रमेणेक्षुजात्यायांशं न रोपयेत् ॥ ४२ ॥ अङ्गुलादन्यय (द्य)न्मानं सं ( स ) वेदाशि (शी ) ति या भवेत् । एकांशं रोपयेत्तस्माज्जात्यंशं तद्विजार्हकम् ॥ ४३ ॥ द्विभागाधिकपट्ट्यंशं भागेकांशसमन्वितम् ।
नृपजात्यंशकं ज्ञेयं नृपाणां वृद्धिकारणम् ॥ ४४॥ चतुर्विंशतिभागं तु कृत्वा भागसमन्वितम् । वैश्यजात्यर्हकं ख्यातं वैश्यानामपि वृद्धिदम् || ४५ ॥ पोडशांशे समारोप्य शूद्रवृद्धिकरांशकम् । एवं जात्यंशसंयुक्त मंशमष्टगुणीकृते ॥ ४६ ॥ सप्तविंशतिसंख्या तु रहते शेषाद्दिनं भवेत् । तद्दिनं जातिऋक्षं स्यात्तद्दिनं सुखसंपदे ॥ ४७ ॥ सुशोभनं तु युक्तं चेत्कर्तुर्वास्तु नृपादिताम् । त्रिंशच्छतान्तभागान्तं विम्बोच्चं तु विभाजिते ॥ ४८ ॥ शवरं रोपयेद्यावच्छुयादिनिसंभवम् । सन्मानं कौतुकच्चं तु पादादुष्णिक (ष्णीष) सीमकम् ॥ ४९ ॥ कर्तुर्बीशकमिदं ख्यातमशैरायादि कल्पयेत् । अष्टाभिवृद्धिदेशांशभानुभिस्तु दृते द्विज ॥ ५० ॥ शेषमायमिति ख्यातमंशमष्टगुणीकृते । सप्तविंशतिहुच्छेषमश्विन्यादिक संभवेत् ॥ ५१ ॥ नत्रभिर्गुणिते त्वंशराशिभिर्द्वासयेत्ततः । शेषं व्ययमिति ख्यातमंशशेपानलेन तु ॥ ५२ ॥ वर्धयेद्वसुभिः प्रोक्तं शेषं ध्वजादियोनया | नवभिर्गुणिते सप्तहृते सौरवारादिकम् ।। ५३ ।।