________________
काश्यपशिल्पे पञ्चाशत्तमः पटलः।
१६९ एकोनविंशदंशं वा षोडशं वा त्रयोदशम् । रुद्रांशं नन्दभागं वा सप्तांशं पञ्च एव वा ॥२४॥ अथवा रुद्रभागोऽन्त्यं नवभागविभाजिते । तेष्वेकांशं समारभ्य एकैकांश विवर्धनात् ॥ २५॥ यावती( च )सप्तविंशांशं तद्वै च (ताबद्वै)सप्तविंशतिः । पूजा(जनां)शे तु विम्बोच्चं साष्टत्रिंशत्रिभेदकम् ॥ २६ ॥ तथैव लिङ्गतारे वा लिङ्गानां (गन्ना) हे च कल्पयेत् । लिङ्गाद्धिम्बोच्चभेदं तु तत्त्वाधिक्यशतं भवेत् ।। २७ ।। गर्भगेहं तथा नन्दभागं नन्दविदं भवेत् । अथवा गर्भगेहं तु त्रिनवांशविभाजिते ॥ २८ ॥ सप्तविंशतिमानं स्यादेतदेकांशवर्धनात् । पञ्चांशमुत्तमोत्सेधं मध्यमं चतुरंशकम् ॥ २९ ॥ अधमं तु गुणांशं स्यात् त्रिविधं द्वारमानकम् । अधमोत्तमयोर्मध्ये वसुभागविभाजिते ॥ ३० ॥ नवधा सकलोत्तुङ्ग द्वारमानं विधीयते । अथवा द्वारतुङ्गं तु सप्तविंशतिभाजित ।। ३१ ।। एकैकांशविहीनेन बिम्वोच्च सप्तविंशतिः । एवं हि द्वारमाने तु षट्त्रिंशं कौतुकोदयम् ॥ ३२ ।। तथाऽधिष्ठानमानेन स्तम्भमाने च कल्पयेत् ।। समवद्धाह्य विस्तारे अथवा प्रकल्पयेत् ॥ ३३ ॥ एकादिनवहस्तान्तं नवधा हस्तमानकम् । तालादिनवतालान्तं तथा नवविधं भवेत् ।। ३४ ॥ कर्तुश्चोदयतुल्यं वा यजमानवशादि दे(म्)। अथवा कन्तु(कते)तुङ्गं तु नवभागविभाजिते ॥ ३५ ॥ एकैकांशविहीनेन यावत्वं (त्तु)सकलोदयम् । चतुर्विंशश्चतुर्भागं पूजांशोचं तु भाजिते ॥ ३६ ॥ एकांशं मङ्गलं ख्यातं मूलं लिङ्गाङ्गुलं विदुः । मानाजुलं तु वा प्रोक्तं पुरप्रासादमानकम् ॥ ३७ ।। कर्त्य(तु)दक्षिणहस्ते तु मध्यमाङ्गुलमध्यमे । पर्वदीर्घ तु तारं वा मानाङ्गुलं द्विधा स्मृतम् ॥ ३८ ॥