________________
काश्यपशिल्पे पश्चाशत्तमः पटलः । लोहजादुत्तमं स्वर्ण मध्यमं राजतं भवेत् । ताम्रज कन्यसं ख्यातं तेषु तेषु फलं तथा ॥ ९ ॥ बिम्बमानं च द्रव्यं च श्रेष्ठमध्याधम भवेत् । सर्वद्रव्येषु देवत्वं सममेवं तु विद्यते ॥ १० ॥ समं चेति दि(दि)व्यं देवेश फलं श्रेष्ठादया( दिक) कथम् । स्थलभेदेन वृक्षं च (क्षाणां) भेदः क्षेत्रेषु विद्यते ॥११ ।। तथा दिव्ये फले तुल्यं दिव्यभेदफलप्रदम् । तस्मादेतु(षु)यथालाभं द्रव्येण सकलं कुरु ॥ १२ ॥ यो नरः कृतवान्भूमौ पुत्रमित्रकलत्रयुक् ।। यथेष्टविषयोपेतश(मि)ष्टादिविपयं मुखम् ॥ १३ ॥ भुजितेकृत(२ च क्रम )तो विप्र सालोक्यादिफलाश्रितम् । मनसा कर्मणा वाचा यो नरः स्तम्भकारिणा(रकः)॥ १४ ॥ सोऽपि कर्मानुसारेण सक्तकृत्स्नफलानुभाक् । तस्मादात्ते(ट्ये) न कर्तव्यं सकलं तु शिवात्मकम् ॥ १५ ॥ सुखासनस्थितं विम्बं उमास्कन्दसमं द्विज । तृतीयं चन्द्रमूर्तीनां चतुर्थ वृषवाहनम् ।। १६ ॥ पञ्चमं नत्तमूति तु गङ्गाधरनंतरम् ।। सप्तमं त्रिपुरारि चाष्टमं कल्याणसुन्दरं तथा ॥ १७ ॥ नवमं सार्धनारी तु दशमं गजहारिणम् । तथा पाशुपतं विद्यात्कङ्कगलं द्वादशं स्मृतम् ।। १८ ॥ त्रयोदर्श हरि विद्याद्भिक्षाटनं चतुर्दशम् । चण्डेश्वरप्रसादं तु पञ्चदशमुदाहृतम् ॥ १९ ॥ षोडशं दक्षिणामूर्ति ततः कालारुणं भवेत् । सर्वेषां प्रतिमानां तु मानमादौ वदाम्यहम् ।। २० ॥ सर्वेषामपि लिङ्गानां शिरोमानं विनोदयम् ।। गृहीतो विद्यमाने तु शिरसावर्तनं तथा ॥ २१ ॥ स्थूलदेशे परीणाहविस्तारं चैव तत्र वै । पूजांशं द्विगुणं ग्राह्यं द्वात्रिंशद्विभजेत्समम् ।। २२ ॥ तेषु वै सप्तविंशांशं पञ्चविंशांशमेव वा। त्रिभागाधिकाविंशांश एकविंशतिरेव वा ॥ २३ ॥