________________
काश्यपशिल्प एकोनपश्चाशत्तमः पटलः । गई(व्य)गन्धोदकैः स्थाप्य गन्धपुष्पादिभिर्यजेत् । लम्बकूर्चसमायुक्तं सर्वालंकारसंयुतम् ।। १८४ ॥ रथे तु शिविकायां वा ग्रामं कृत्वा प्रदक्षिणम् । ततो जलाशयं प्राप्य जलाधिवासनं कुरु ॥ १८५॥
लक्षणोद्धारमारख्यातं प्रतिमालक्षणं शृणु । इति काश्यपशिल्पे लिङ्गलक्षणोद्धार एकोनपञ्चाशत्तमः पटलः ।
॥ अथ पञ्चाशत्तमः पटलः ॥
प्रतिमालक्षणम् ।
प्रतिमालक्षणं वक्ष्ये शृणुष्वैकाग्रमानसः । अचलं च चलं चैव चलाचलमिति त्रयम् ।। १ ।। मृन्मयं शार्करं चैव सौयजं च चलि(वर्ण चाचलं)स्मृतम् । शैलजं दारुजं चैव धातुजं रत्नजं तथा ।। २ ॥ चलाचलमिति ख्यातं चलमेवं तु लोहनम् । अर्थचित्रं च चित्रं च चित्राभासमिति त्रिधा ॥३॥ अर्धाङ्गादर्धदं विम्बमर्धचित्रमिति स्मृतम् । सर्वावयवसंदृष्टं यत्र चित्रमितीष्यते ।। ४ ।। निम्नोभते पटे भित्तौ विम्बं त्वाभासमुच्यते । अर्धचित्रं तु सुधया अन्यचित्रवशार्धकम् ॥ ५ ॥ आभासं धातुभिः कुर्याच्चित्रं चित्रार्धमेव वा । चित्राभासं तु देवानां फलं श्रेष्ठान्तराधमम् ॥ ६ ॥ इष्टिकाभिः परं पीठं पीठादाभासकं परम् । आभासार्ध तु तस्माद्वै मृन्मयं परमं परम् ॥ ७ ॥ मृन्मयं दा(यादा)रुज श्रेष्ठं दारुजाच्छैलजं वरम् । शैलजाल्लोहजं श्रेष्ठं कर्तृणां तु फलं तथा ॥ ८ ॥