________________
काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः । मणिरेखाव्यासघातं लिङ्गस्योच्छितं सत्रयेत । मणिरेखालम्बनं नालादिसाईसममेव वा ।। १६९ ॥ तस्मादामूलपर्यन्तं वसुभागविभाजिते । मणिरेखालम्बनं वाऽपि प्रण(न)वधा परिकीर्तितम् ।। १७० ॥ सर्वेषु लक्षणोद्धारेवष्टमं मणिरेखिके । प्रथमं लक्षणं प्रोक्तं द्वितीयं लक्षणं शृणु ॥ १७१ ॥ लक्षणोद्धरणोशिं दशभागविभाजिते । मुकुलोदयमेकांशं वस्वंशं नालदीर्घकम् ॥ १७२ ॥ नालाधस्तात्तु व्योमांशं नीत्वा शेषं तु पूर्ववत् ।। द्वितीयं लक्षणं ख्यातं तृतीयं लक्षणं शृणु ॥ १७३ ॥ लक्षणोद्धारभागं तु धर्मभागविभाजिते ।। एकांशं मुकुलोचं तु नवांशं नालदीर्घकम् ॥ १७४॥ शेषं पूर्ववदुद्दिष्टं चतुर्थ लक्षणं शृणु । लक्षणांशं तु नवधा भज्यैकांशं तु कुड्मलम् ॥ १७५ ॥ सप्तांशं नालदीर्घ तु शेषं पूर्ववदाचरेत् । चतुर्थ लक्षणं प्रोक्तं पञ्चमं शृणु सुव्रत ॥ १७६ ॥ लक्षांशं वसुधा भज्य व्योमाशं मुकलोदयम् । षडंशं नालीर्घ तु नालाधस्ताच्छिवांशकम् ॥ १७७ ॥ तदेव सप्तभागं तु नालदीर्घमुदाहृतम् ।। शेष प्रागिव कर्तव्यं सप्तमं लक्षणं शृणु ॥ १७८ ॥ लक्षार्धाशे तु सप्तांशे शक्त्यंशं मुकुलोदयम् । भूतांशं नालदीर्घ तु शेषं पूर्वदेव हि ॥ १७९ ॥ षडंशं वाऽर्धतन्नालदीर्घशेषं तु प्रागिव । एवमष्टविध ख्यातं नालायाम द्विजोत्तम ॥२८० ॥ अग्राकारेऽब्जुमुकुलं भानुसंख्या तु सुव्रत । यथेष्टनालं कर्तव्यं नव संख्या तु देशिकः १८१ ।। दृढसूत्रं प्रकर्तव्यं लिङ्गेषक्तप्रमाणतः ।। स्थापयेत्तु ततो लिङ्ग प्रागग्रं दारुविष्टरे ।। १८२ ॥ लक्षयेत्पीठकोव(वि)त्तं लिङ्ग सौम्ये निधापयेत् । स्थापितः कलशैः स्थाप्य लिङ्गपीठं हृदा बुधः ॥१८३ ॥