________________
काश्यपशिल्प एकोनपश्चाशत्तमः पटलः । . . १६५ चुबुके बन्धुनाशः स्यात्कण्ठे स्कन्धविनाशनम् । स्तनदेशे सुतं हन्ति तस्मादेतानि वर्जयेत् ॥ १५४ ॥ शिरसा व्यह(व्यास) रुद्रांशं गुणांश विभजेत्समम् । पद्मस्य मुकुलाकारं लिङ्गाकारं यथाकृति ॥ १५५ ॥ द्विजानामतिवृद्धयर्थं नृपाणां च जयावहम् । खड़ों प्रत्यत्विकाकारं कुञ्जराक्षमिवाकृतिः ॥ १५६ ॥ शङ्खाभं छत्रयोर्मेदानपाणामपि वृद्धये । कराञ्जलिसमाकारं गोकर्णाकृतिवद्भवेत् ॥ १५७ ॥ वैश्यानां तत्रिकोणं च शूलवृत्तायतं तथा । शूद्रवृद्धिकरत्रीणि सूत्रं गृह्य तु लक्षणम् ॥ १५८ ।। लक्षणोद्धारणोत्तांशं रुद्रभागविभाजिते । मुकुलोदयमेकांशं तद्वा(व्या)सं चापि तत्समम् ॥ १५९ ।। तन्मूलानां तु दीर्घत्वं नवभागमुदाहृतम् । तन्नालमेकसूत्रं वा सूत्रद्वित्रियुतं तु वा ॥ १६॥ सूत्रमाययुतं चेत्तु सूत्रान्तरयवत्रयम् ।। य[व] द्वयान्तरं वाऽथ नालतारं द्विजोत्तम ।।१६१ ॥ नालमूर्ध्वं च तस्याग्रे सीमासूत्रं समालिखेत् । तन्नालं स्वेकसूत्रं चेल्लिङ्गमध्ये विशेषतः ।। १६२ ॥ सूत्रोक्तव्यासखातं च नालायामे तु कल्पयेत् । नालाधस्तात्तु व्योमांशं त्यजद्विष्वंशकोपरि ॥ १६३ ॥ मणिरखा ततः कार्या मुकुलं स्पुल्लिङ्गमन्तगौ।। मणिरेखयोन्तर्विप्र पद्ममूलं समं तु वा ।। १६४ ॥ पद्मतारं त्रिधकं वा वेदांशे व्यंश एक वा । पञ्चांशे तु युगांशं वा पातारार्ध एव वा ॥ १६५ ॥ मुकुलमूलेऽन्तरं ह्येवं नालमूलेऽन्तरं शृणु । नालायामसमं वाऽधपादं पादयुगांशको ॥ १६६ ।। त्रिभागं पश्चभागं तु वेदभागमथापि वा। नालमूलसमं त्वेव मणिरेखाद्वयोत्तरम् ।। १६७।। मूलादग्रं क्रमाक्षीणं मणिरेखान्तरं कुरु । धातुमूले समे तिर्यगत्वा पृष्ठे तु संघयेत् ॥ १६८ ॥