________________
काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः । भानुत्रयोदशाशैस्तु त्रिपुराभं चतुर्विधम् । शिवाधिकं च लिङ्गं तु शस्तं वैश्यार्हकं मतम् ॥ १३९॥ त्रिंशत्रिंशे शिरस्तारे द्वाविंशत्येकविंशतिः । विंशदेकोनविंशाशैरर्धचन्द्रं चतुर्विधम् ॥ १४० ॥ स्वस्तिकाख्यं च लिङ्गं तु प्रशस्तं शूद्रवृद्धिदम् । सार्वदेशिकलिङ्गानामन्येषां च विशेषतः ॥ १४१ ।। छत्राद्विशीर्षकारे तत् कर्ततिवाशयं ननेत् । दैविकार्षप(ज)लिङ्गानां तेष्विष्टं शीर्षकं भवेत् ।। १४२ ॥ शिरसो वर्तनोत्सेधौ गुणभागविभावयः(गतः)। स्थपतिश्च शुचिर्भूत्वा यज्ञसूत्रेत(त्रान्त)रान्वितः ।। १४३ ।। प्राग्वदग्निं समभ्यर्थे स्विष्टपूर्णाहुतिं चरेत् । प्रतिसरं बन्धयेत्तत्र लिङ्गपीठे द्विजोत्तम ॥ १४४ ॥ स्वर्णारचितकाससूत्रैर्वाहमयेन तु । प्रभाते सुमुहूर्ते तु लक्षणोद्धारमाचरेत् ।। १४५ ॥ पायसं घृतसंयुक्तं शिरःस्थाने बलि हरेत् । रक्तशिङ्गी परित्यज्य गन्धाद्यैरर्चयेट्दा ॥ १४६ ।। रक्तेन यातुना लिङ्गमध्ये सूत्रं तु पातयेत् । मुखभागस्य मध्ये तु नालं कुयोत्सलक्षणम् ॥ १४७ ॥ लिङ्गमानेन मतिमान्सूत्रविस्तारमुच्यते ।। रुद्रभागोदयं गृह्य शिरसो वर्तनान्वितम् ॥ १४८ ॥ सवेदविशदं भागं कृत्वकांशे तु विस्तृतम् । अङ्गुल वसुधा भज्य एकांशं यवमुच्यते ॥ १४९॥ उत्तमोत्तमलिङ्गानां सूत्रं पञ्चायतं ततिः। सर्वेषामपि लिङ्गानां यवार्धं प्रतिहासयेत् ॥ १५० ॥ अधमाधमलिङ्गस्य सूत्रतारं यवं भवेत् । सूत्रीवस्तारमेवं स्याख्यातं चैव तु तत्समम् ॥ १५१ ।। एकांशमूर्ध्वतो वयं स्तनादूर्ध्वं तदंशके । ततस्तदंशयोर्विप्र लक्षणोद्धारमाचरेत् ।। १५२ ।। लक्षणं शिरसि व्याधिर्ललाटे मरणं भवेत् । नेत्रे कृते त्वपस्मारं आस्ये धान्यविनाशनम् ।। १५३ ॥