________________
काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः |
विष्कम्भमष्टधा कृत्वा मूले मध्ये तथाऽग्रके । भागहीनं तु संकल्प्य स्थूलमूलमुदाहृतम् ।। १२४ ॥ ह्रासयेच्छिवभागादि शिरःस्थूलमुदाहृतं । एतदार्षमिति ख्यामृषिभिः पूजितं वरम् ॥ १२५ ॥ गुणाग्रं पञ्चकोणं च षट्सप्तद्वादशाश्रकम् । दशधा वाश्रकं चापि अश्रेतरमनोहरम् ।। १२६ ॥ फलकादर्पणाकारमेक रेखमरेखकम् ।
१६३
शिरसो वर्तनाहीनं मानोन्मानैरनन्वितम् ॥ १२७ ॥ सेव्यं स्वायंभुवं चेति ख्यातं देवैः सुपूजितम् । वाणेन पूजिताभोगिं (गं) बाणलिङ्गमुदाहृतम् ॥ १२८ ॥ स्थूलं सूक्ष्मं शिरोमूलं क्रमेण परिपठ्यते । उत्तमं तु मुखं ख्यातं मधुवणं सुम (न)न्दनम् ॥ १२९ ॥ विष्टरे तु प्रवेशांशं सार्वदेशिक लिङ्गवत् । लोहजं रत्नजं चैव सार्वदेशिक लिङ्गवत् ।। १३० ॥ लिङ्गभेदः समाख्यातः शिरसो वर्तनं शृणु । लिङ्गमूर्धादिकेशान्तं शिरसो वर्तनं भवेत् ॥ १३१ ॥ तस्मालिङ्गदये कुर्याच्छरसो वर्तनं द्विज । छत्राकारं भवेत्पूर्वी कुक्कुटाण्डं द्वितीयकम् ॥ १३२ ॥ तृतीयं त्रिपुराकारमर्धचन्द्रं तु मूर्धकम् । यस्य लिङ्गस्य विष्कम्भमष्टाया (ष्टधा विभजेद्बुधः ॥ १३३ ॥ ऊर्ध्वादर्घाशमालम्ब्य प्रथमं च त्रिशर्षिकम् | द्वात्रिंशद्विभजेत्तारमर्धाद्भूतांशलम्बितम् ॥ १३४ ॥ छत्राभं तद्वितीयं स्यात्सप्तांशं तत्तृतीयकम् । चतुर्थे तु नवांशं तु छत्राभं च चतुर्विधम् ॥ १३५ ॥ द्विजानां च नृपाणां च छत्राभं सर्वकामदम् । सर्वेषामपि लिङ्गानां छत्राभं तु प्रशस्तकम् ॥ १३६ ॥ वा(हा ) से द्वात्रिंशदंशे तु मनुपक्षकलांशकैः । रुतादशांशकं चैव कुक्कुटाण्डं चतुर्विधम् ॥ १३७ ॥ वर्धमानं च लिङ्गं तु प्रशस्तं क्षत्रियाईकम् | द्वात्रिंशांशे शिरस्तारे धर्मरुद्रांशकैः सदा ॥ १३८ ॥