________________
१६०
काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः ।
नवहविधिर्या (स्तावायें या ) वत् संख्या षष्टिः सपञ्चका । पञ्चहस्तद्विमानासि (नि) हर्म्ये हस्तवशान्नयेत् ।। ७९ ।। पञ्चहस्तादतो हर्म्यं लिङ्गस्तम्भवशं विना । हस्तादि गुणहस्तान्तं विकल्पाभासहर्म्ययोः ॥ ८ ॥ त्रिहस्तं षट्करान्तं तु लिङ्गच्छन्दविमानके । षट्करादि नवान्तं तु लिङ्ग जातिगृहोचितम् ॥ ८१ ॥ एवं हस्तवशात्ख्यातं तालमानमयोच्यते । तालादि नवतालान्तमेकतालविवर्धनात् ॥ ८२ ॥ लिङ्गे हि नव संख्याः स्युः कल्प्यं जातीतरालये । त्रयोदशाङ्गुलारभ्य यावन्नद (व) शताङ्गुलम् ॥ ८३ ॥ तावदेकोनपञ्चाशलिङ्गं मानाङ्गुलेन तु । त्रिभागसहितं लिङ्गं हस्तक्षीणं न कारयेत् ॥ ८४ ॥ हस्तमानाक्षयं लिङ्गं वृत्ताकारमशेषकम् । वेदानवोल एवांशषष्टि(विष्ट) रे योजयेद्बुधः || ८५ ॥ शेषं तु दृश्यमानं स्याद्विकल्पाभाससंय(हर्म्य) योः । विष्टरे ये(ई)शलिङ्ग तु विकल्पापगृहे विना ॥ ८६ ॥ एकाङ्गुलं समारभ्य यावद्वाता ( (ससा ) डुलावधि | लोहजं रत्नजं तावदूर्ध्वे शैलजमुध्यते ॥ ८७ ॥ त्रयोदशाङ्गुलं लिंगं शैलजं तु न कारयेत् । एवं त्वनेकभेदेन प्रोच्यते लिङ्गमानकम् ॥ ८८ ॥ नागरं द्राविडं लिङ्गं वेसरं च वदाम्यहम् | लिङ्गोदये तु वेदांशे एकांश कन्यसस्तमम् ॥ ८९ ॥ तुङ्गशे शिवांशं तु विस्तारं श्रेष्ठमुच्यते । तयोर्मध्येऽष्टभागे तु नवधा तारमुच्यते ॥ ९० अथोदये कलांशे तु पञ्चांश शान्तिकं भवेत् । वेदांशं पौष्टिक ख्यातं गुणांशं जयदं भवेत् ।। ९१ ।। अविचाराद्विभागः स्याद्वासमेवं चतुर्विधम् ।
एवं त्रयोदशव्यासं नागरे तु विधीयते ॥ ९२ ॥
लिङ्गने द्विर्नवांशे तु रसभूतयुगांशके । मुणांशे शान्तिकादिः स्याद्राविडे व चतुर्विधम् ॥ ९२ ॥