________________
काश्यपशिल्प एकोनपश्चाशत्तमः पटलः । वेसरे लिङ्गन्तुङ्गे तु विंशत्यंशविभाजिते । अष्टवा सप्तषट्पञ्चभागैासं प्रकल्पितम् ॥ ९४ ।। शान्तिक पौष्टिकं चैव जयदं च क्रमेण तु । वेसरं च चतुर्भेदं हर्यलिङ्ग च पिण्डिका ॥ ९५ ॥ पादाधाराशिलाश्चैव एकजातिस्वशङ्करम् । पादधारशिलाश्चैव एकजातिवसंङ्करम् ॥ ९६ ॥ यत्रैवं कल्पितं लिङ्ग वृद्धिहेतुरुदाहृतम् । अन्योन्यसंकरश्चेत्तु राज्ञो दुःखभयावह ।। ९७।। तस्मात्सर्वप्रयत्नेन संकरं न समाचरेत् । लिङ्गानां नागरायेवं ख्यातमायादिकं शृणु ।। ९८ ।। लिङ्गस्योत्सेधमानं तु मानाङ्गुलेन भाजयेत् । मात्रच्छेदं प्रवृद्धया वा हन्याद्वा परिकल्पयेत् ।। ९९ ॥ श्रेष्ठान्तरायाममात्रैर्मात्र पूर्ण परिग्रहेत् । उत्सेधमात्रमष्टाभियंधितं ऋक्षसंख्यया ॥ १०० ॥ त्वष्टां शे नन्दिनं ख्यातमश्विन्यादि द्विजोत्तम । नवभिर्गुणिते सप्तद्वित्वे(हृते)त्वेकादिवारके ॥ १०१ ॥ अनले गुणिते चाष्टहृद(ते)योनिमु(रु)दाहृतम्(ता) । अष्टभिर्वर्धिते भानु(ह)ते त्वायमुदाहृतम् ।। १०२ ॥ नवभिर्गुणिते नाडीहते शेषमृणं भवेत् । युगद्धया नवे हासे त्वशंकं तस्करादयः ॥ १०३ ॥ आयाधिक्यं व्ययं क्षीणं संपदामास्पदं सदा । ध्वजसिंहघाहस्तिशुभयोनिरुदाहृता ॥ १०४।। नृपकर्तुश्च जन्मक्षल(ोल्लि)ङ्गऋक्षावसानकम् । तथैर(व)वास्तुऋक्षादि गणयेत्तु शुभाय(श) या(वहम्) ॥ १०५ ।। जन्मत्रयं च युग्मं च वेदाष्टऋतुनन्दकाः । शुभावहपिना(य विहिता) ह्येते शेषकास्त्वशुभावहाः ।। १०६ ॥ लग्नाष्टकं च वै ... ... नराक्षसम् । वर्जितास्त्वशुभा ह्येते यत्नतः परिवर्जयेत् ॥ १०७ ।। भानुवारादिसंयुक्ता शूर्पक्षा(सूर्या)दिचतुश्चतुः ।
रिपुत्वं मरणं नाशममृतं च यथाक्रमात् ।। १०८ ॥ २१