________________
१५९
काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः । तस्यास्तु शाडूरे देशे शान्तिहोमं तु कारयेत् । अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ६४ ॥ समिधो हृदयेनैव मूलेनाऽऽज्यं तु होमयेत् । चरुहोममघोरेण पुरुषेणैव तण्डुलम् ॥ ६५ ।। तिलमीशानमन्त्रेण सर्षपं कवचेन तु । शतमधं तदर्ध वा प्रत्येकं जुहुयात्क्रमात् ॥ ६६ ॥ स्विष्टकृतिमनेति(दग्ने)मन्त्रेण पूर्णाहुतिमथाऽऽचरेत् । ततो वह्नि समुद्वास्य पूजापर्युषितं त्यजेत् ।। ६७ ॥ शिलाच्छेत्ताहक(दकरं श(स्त्रमस्त्र)मन्त्रेण पूजयेत् । अपसर्पणमुच्चार्य शिलाच्छेदनमाचरेत् ॥ ६८ ।। गर्भगेहं तु पञ्चांशं गुणांशं श्रेष्ठमुच्यते । गर्भगेहसाणं च द्वारमानं तथैव च ॥ ६९ ॥ स्तम्वं च कालमानं च इस्ततालाजलं तथा । लिङ्गमानं ध्रुवं सप्त भेदास्ते प्रत्यनेकधा ॥ ७० ॥ गर्भगेहं तु पञ्चांशं गुणांशं श्रेष्ठमुच्यते । गर्भाध मध्यमाख्यातं तयोर्मध्येऽष्टभाजिते ॥ ७१ ॥ श्रेष्ठमध्याधम लिङ्ग प्रत्येक त्रिविधा भवेत् । अथवा गभेगेहं तु नवभागविभाजिते ॥ ७२ ।। गर्भगेहसमासार्धानुत्तमादि प्रयत्रयम् । शुद्धद्वार समं श्रेष्ठं त्रिद्वयंशं तु कनीम(य)सम् ॥ ७३ ॥ तयोर्मध्येऽष्टभागे त नन्दभेदं द्विजोत्तम । स्तम्भायामसमासं तु नवभागविभाजिते ।। ७४ ।। श्रेष्ठान्त(ध)मानि नवधा मोच्यते द्विजसत्तम । प्रासादे त्वादिभूमौ तु स्तम्भभागसमं हि तत् ।। ७५ ॥ तन्मध्यमिति विख्यातं तस्यार्धमधमं भवेत् । तयोर्मध्येऽष्ठभागेन नन्दभेदे द्विजोत्तम ॥ ७६ ॥ स्तम्भायामे तु तत्रैव नवभागविभाजिते । नवधा लिङ्गमानं तु स्तम्भमानं द्विजोत्तम ॥ ७७ ।। अधिष्ठानोदयं विप्र स्तम्भमानवदाचरेत् । एकहस्तं समारभ्य स्वाष्टांशांशविवर्धनात् ।। ७८ ।।