________________
१५८
काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः ।
हरिता कृष्णा शिला ग्राह्या सितवर्णा विशेषतः । खर्जूरपत्रसदृशा दूर्वास्तम्बाकृतिः शुभा || ५० || अन्यकृत्वा (ष्णाS) शुभा ख्याता गोधान्यधननाशनम् । सकलं रोगदं ज्ञेयं राजराष्ट्रविनाशनम् ॥ ५१ ॥ बिन्दुः पुत्रविनाशः स्याद्दारिद्रयं श्रीविनाशनम् | एवं पर्यक्षि(रीक्ष्य) बहुधा कारयेल्लक्षणान्वितम् ॥ ५२ ॥ बाला युवतिर्वृद्धा च पुंखीनपुंसकं तथा । स्वरैकाकृति भेदैश्च परिच्छेदविधिं शृणु ॥ ५३ ॥ खनकंसध्वनिर्हस्वा शिला बाला इति स्मृता । घण्टाध्वनिसमा दीर्घा युवतिः सा प्रकीर्तिता ॥ ५४ ॥ विम (त) तध्वनिसंयुक्ता या सा वृद्धाचे कीर्तिता । घण्टाध्वनिसमोन्नादा दीर्घा सा पुंशिला इव ॥ ५५ ॥ तालशब्दसमाकारा दीर्घा या सा शिला स्त्रियः । अस्थि (स्नेहा) झर्झरी इ (रू)क्षा स्वरहीना नपुंसका ॥ ५६ ॥ स्वरैरेव समाख्याता आकृत्या भेद उच्यते ।
चतुरश्रा च वस्वश्रा स्त्रीशिलेति प्रकीर्तिता ॥ ५७ ॥ आयताश्रा च वृत्ता च दशद्वादशकोणका |
पुंलिङ्गा सा शिला ख्याता सुवृत्ता सा नपुंसका ॥ ५८ ॥ दशाग्रद्वादशाग्रां च बालवृद्धां च वर्जयेत् ।
पुंशिलाभिः कृतं लिङ्ग स्त्रीशिलाभिस्तु पिण्डिका ।। ५९ ।। नपुंसकशिलाभिस्तु पादाचारः समाचरेत् ।
कृतं च विपरीतं यत् तत्सदा कर्तृनाशनम् || ६० ॥ भागग्रां बोदगग्रां वा शिलां संग्राह्य देशिकः । प्रागग्रे पश्चिमं मूलमुदगग्रं तु दक्षिणे ।। ६१ ॥ शङ्क-सौम्यगतं यत्तलिङ्गायं तत्मकीर्तितम् । अधोभागं मुखं ख्यातं पृष्टमूर्ध्वगतं भवेत् ।। ६२ । एवं परीक्ष्य संग्राह्य गव्यैः क्षाल्य हृदा बुधः । सत्यमन्त्रेण संस्थाप्य गन्धपुष्पादिभिर्यजेत् ॥ ६३ ॥