________________
काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः । १५७ दाडिमीपुष्पसंकाशा बन्धूककुसुमममा । कोरण्ड(कुरण्ट)कुसुमप्रख्या पतिा शैला च सप्तधा ॥ ३५ ॥ महिषाक्षाञ्जनामासा नीलोत्पलसमप्रभा । भङ्गमायूरकण्या(ण्ठा)मा मषीपत्रसमा तथा ।। ३६ ॥ राजावतेनिभाकारा कृष्णमुद्समप्रभा । हस्वमुद्गसमाकारा कुशेशला(ष्णशैल)दशा स्मृता ॥ ३७ ॥ श्वेता रक्ता च पीता विप्रादीनां क्रमाद्भवेत् । धर्मकामाथेमोक्षांश्च दाः सततमेव च ॥ ३८ ॥ परेषां वाचकं श्रेष्ठं परेषामपरं विना। प्रतिलोमानुलोमाभ्यां भिन्नयोगं न गृह्यताम् ॥ ३९ ॥ माचार्यशिल्पिनौ चैव सितवस्वधरावुभौ। शुक्लमाल्यानुलिप्ताङ्गो पञ्चाङ्गभूषणान्वितो ॥ ४० ॥ कुठारादीनि संगृह्य शिलां गच्छेत्समाहितौ । यस्मिन्देशे शिला शेते तां कृत्वा तु प्रदक्षिणम् ॥ ४१ ॥ दोषवर्जा शिलां दृष्ट्वा परिच्छेद्य विशेषतः । पम्रा(पा)तपाग्निगन्धां च सुकीर्णा क्षारवारिणा ॥ ४२ ॥ दुर्देशस्थां तटस्थां च कर्मान्तरे तु योजिताम् । शर्कराढयां च पङ्कां च जर्जरां रूक्षसंयुताम् ॥ ४३ ॥ रेवाविन्द कलङ्कादिसंयुक्त परिवर्जयेत् । सूत्रवद्वातदाकारा रविरश्मिसमायुता ।। ४४ ॥ वर्षेपातवदाकारा रेखा चै त्रिविधा स्मृता ।। जम्बूफलसमाकारा वा द्राक्षासदृशोपमा ।। १५ ।। अन्यद्वा वृत्तसंकाशा त्रिविधा बिन्दुरेव हि । कृष्णलोहनिभाकारा कृष्णभ्रमरसंनिभा ।। ४६ ॥ शिखिपिच्छसमाकारा कलङ्कन च चतुर्विधा । खजूरपत्रसंकाशा दूर्वास्तम्बनिभा तथा ॥ ४७ ॥ वैणवाङ्करसंकाशा लूतापादवदायता। अन्याश्मसु सितारेखा सर्वसम्पत्समद्धिदा ।। ४८॥ कृष्णकृष्णा विनाशाय श्वेतकृष्णातथैव हि । यस्मात्सर्वप्रयत्नेन इतरा परिगृह्यताम् ॥ ४२ ॥