________________
१५६
काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः । वायसं दक्षिणे वामादागतं च तथैव च । श्येनं वै दक्षिणे चामे गृधं मांसेन संयुतम् ॥ २० ॥ कन्यागोदशेनं चैव गावस्त्वावाहनं तथा ।। दधिना पूर्णकुम्भं च क्षीरकुम्भं तथैवच ॥ २१ ॥ पुष्पं पुष्पधृतं वाऽपि सुतवतीयु(यू)वतिस्त्रियः । अन्नं च मांसहास्त्र(हारं च )शिवभक्तिपरायणम् ॥ २२ ॥ ज्वालानलं च दीपं च जलैः पूर्ण घटावृतम् । त(व)राहं च गजं चैव वेण्या चात्यन्तसुन्दरी ॥ २३ ॥ शुभान्येतानि भौमानि अशुभं विपरीतकम् । उल्कापातं दिशां दाहं महावातप्रवर्तनम् ॥ २४ ।। अशुभान्यन्तरिक्षाणि भौमाशोभनमुच्यते । मुक्तकेशनराश्चैव कीर्णके शास्तथैव च ॥ २५ ॥ तैलाभ्यक्ताश्च नग्नाश्च काषायसनान्विताः । दर्शनेनैव मद्भाण्डं तैलपात्रं तथैव च ॥ २६ ॥ छिन्ननासिकन्या साकर्णक)श्च हीनाङ्गश्चाधिकाङ्गवान् । पुत्रहीना तु नारी च विधवा च तथैवच ।। २७ ॥ बहुभक्ष्याश्च भौपान्येतानि वर्जयेच्छुभे । शुभं चेद्गमनं कुर्यादशुभं चेद्विवर्जयेत् ।। २८ ।। अशुभे त्वग्निमास्तीय शिवेनैव शताहुतीः । सामिदाज्योदनैः कुर्यान्नागान्नं नागभूषणम् ।। २९ ॥ दत्त्वा शिवं नमस्कृत्य गच्छेदाचार्यशिलिप च ! पर्वते सागरे तीर्थ क्षेत्रे चैव बने पुनः ।। ३० ।। क्षीरवृक्षसमीपे च देवहर्म्यसमीपके । नदीतटाकतीरे वा शिलां संगृह्य शिल्पकः ॥ ३१॥ अन्यस्थाने न गृह्णीयाद्राहितेस्यानुनाशनम् । श्वेता रक्ता च पीता च कृष्णा चैव चतुर्विधा ॥ ३२ ॥ गोक्षीरशङ्खकुन्देन्दुमुक्तास्फटिकसंनिभा । मल्लिकाकुसुमप्रख्या श्वेता सप्तविधा स्मता ॥ ३३ ॥ जपाकिंशुकपुष्पाभा इन्द्रको(गो)पसमप्रभा । जातिलिङ्गनिभाकारा शशरक्तसममभा ॥ ३४ ॥