________________
१५५
काश्यपशिल्प एकोनपञ्चाशत्तमः पटलः । तस्मादबिन्दुसमुत्पन्नं नादं सादाख्यमुच्यते । बिन्दुमानेन विख्याना तस्मादीश्वरसंभवः ॥ ५ ॥ ईश्वरान्महेश्वरस्य सृष्टिस्तस्मात्तु वैष्णवम् । तस्मात्मासादसद्भावः प्रादेशात्तु विशेषतः ॥ ६॥ त्रीणि चैव त्व( तु )त्रिंशश्च त्रिशतं त्रिसहस्रकम् । देवता ऋषयश्चैव दानवा रसयोनयः ॥ ७ ॥ संभवो ह्युदितो विप्र तेष्वादौ त्रीणि निष्कलम् । शिवं तं सकलं ख्यातं मिश्रनादं च बिन्दुकम् ॥ ८ ॥ नादं लिङ्गाकृति ज्ञेयं बिन्दुपीठाभमुच्यते । लिङ्ग शिवमयं ख्यातं पीठ तस्यात्मकामयम् ।। ९ ।। तस्माच्छिवात्मिका चैव अभिन्नेवानलोष्णवत् । जगदातिविनाशार्थ सर्वप्राणिहिताय वै ॥ १० ॥ देवादीनां हितार्थाय ध्यानपूजानिमित्तकम् । लिङ्ग योनिप्रकारेण सादाख्यं तत्त्वमुद्भवम् ।। ११ ॥
सर्वेषामुद्भवार्थ तु प्रोच्यते लिङ्गलक्षणम् । • तल्लिङ्ग त्रिविधं ख्यातं चलं चैवाचलं तथा ।। १२ ।। चलाचलं च विख्यातं क्रमेणैव विशेषतः । रत्नज लोहजं वाऽथ लिङ्गं कृत्वा सयोनिकम् ॥ १३॥ लिङ्ग-द्रव्येतरं ख्यातं योनि कृत्वा सलक्षणम् । शिरसो वर्तनोपेतं लक्षणोद्धारवर्जितम् ॥ १४ ॥ वृत्ताकारमशर्ष तु कृते लिङ्गोदयाधकम् । उदयेन लोकभागं घा वेदशिन तथापि वा ।। १५ ।। पीठे निवेशयेच्छेषं ध्य(श्य)मानसमन्वितम् । ममागम ... चेष्टदेशेऽन्यस्योदृतक्षयम् ॥ १६ ॥ यत्तल्लिङ्ग चलं वेशं दृश्य चलाचलाचलम् । अश्मजं सूत्रसंयुक्त बाणलिङ्ग तु तद्विना !! १७॥ तेष्वादौ त्वचलं लिङ्गलक्षणं वक्ष्यतेऽधुना । सुमासतिथिनक्षत्रलनवारे शिलां ग्रहेत् ।। १८ ।।
आचार्यः शिल्पिसंयुक्तः शिलाग्रहणमाचरेत् । दिव्यान्तरिक्षभौमानि निमित्तान्युपलक्षयेत् ॥ १९ ॥