________________
१५४
काश्यपशिल्पेऽष्टचत्वारिंशः पटलः ।
१६३ ॥
दुर्मुखं सौम्यदिग्भागे वायुभूतं तदेव हि । अविघ्नं कणिको तु व्योमात्मकमुदाहृतम् ।। १६१ ॥ तामसं त्वनले पद्मे वा स्यानैर्ऋते दले | सात्त्विकं वायुर्दिग्भागे विघ्नकर्तारमीशके ॥ १६२ ॥ विघ्नकर्तारमित्युक्तमात्मनत्वमुदाहृतम् ॥ भूम्यन्तरिक्षं स्वर्गे च सर्वभूतगुणात्मकम् ॥ तत्सर्वमात्ममित्युक्तं महापीठं द्विजोत्तम । तामसाद्धि निवृत्त्यर्थं नित्यं बल्यन्तमर्चयेत् ॥ १६४ ॥ तासामात्मापहाराय नित्योत्सवैः प्रदक्षिणम् । भूमिप्रदक्षिणं त्वादद्वितीयं ह्यन्तरिक्षकम् || १६५ ।। स्वर्गप्रदक्षिणं पञ्चात्कृततद्वासिनां हितम् | जगदार्तिविनाशार्थं कल्प्यैवं साधकोत्तमः ॥ १६६ ॥ पश्चिमाभिमुखे हर्म्ये किंचिद्भेदं वदाम्यहम् | वृषस्थाने कुमारं तु कौमारे वृषं विन्यसेत् ॥ १६७ ॥ वारुणं तु महापीठं शेषं पूर्ववदाचरेत् । परिवारविधिः प्रोक्तः पचालिङ्गस्य लक्षणम् | ॥ १६८ ॥ इति काश्यपशिल्पे परिवारविधिरष्टचत्वारिंशः पटलः ।
अथैकोनपञ्चाशत्तमः पटलः ।
लिङ्गलक्षणम् ।
अथ वक्ष्ये विशेषेण शिवलिङ्गस्य लक्षणम् । संसारविषये भूता लयं गच्छन्त्यशेषतः ॥ १ ॥ यथा सृष्टिस्तथा तस्मात्सृष्टित्वाल्लिङ्गमुच्यते । संसारे निष्कलं शान्तं वाङ्मनोतीतगोचरम् ॥ २ ॥ मुक्तिदं सर्वभूतानां स्वात्मनः परमं विना । सर्वाभिव्यापिनं गुह्यं सर्वलोकैकनायकम् || ३ || तस्माद्वै सृष्टिकालेषु शान्तितत्त्वसमुद्भवः । तच्छान्तेः शक्तिः संभूता तस्या नादस्य संभवः ॥ ४ ॥