________________
काश्यपशिल्पेऽष्टचत्वारिंशः पटलः । १५३ पादपीठोपरिष्टात्तु अष्टावेतान्मरुद्गाणान् । उग्रश्चतुर्भुजो रोद्रो रक्तवस्त्रसमन्वितः ।। १४६ ॥ करण्डमुकुटोपेतः सर्वाभरणभूषितः । अभयं वरदोपेतं टङ्कशूलधृतः परः ।। १४७ ॥ स्थानकं पद्मपीठे तु शुक्लवस्त्रधरः शुचिः।। शनैश्वरः कृष्णवर्णो द्विभुजः सितवक्र(क्त्र)कः ॥ १४८ ।। करण्डमुकुटोपेतः सवाभरणभूषितः । दण्डं दक्षिणहस्ते तु वरदं वाम उच्यते ॥ १४२ ॥ स्थानकं पद्मपीठे तु आसीनं वा विशेषतः। ईषत्कुश्चितमिवस्थान इषद्भस्वतनुः स्मृतः ॥ १५० ॥ प्रथमं ह्येवमाख्यातं पीठं तल्लक्षणं शृणु। प्रासादस्य तु विस्तारं यत्तद्दण्डमिहोच्यते ।। १५१ ॥ भानुयाङ्गुलं तारमुत्सेधं भानुमात्रकम् । गुणाकुलं समुत्सेधं पद्मोरिसक्तगुणालयम् ।। १५२ ॥ षडङ्गलं पद्मविस्तारं शेषोज़ कम्पनीत्रकम् । शिलाभिरिष्टकाभिवों सुधया वा प्रकल्पयेत् ॥ १५३ ॥ परिवारविष्टरो ह्येवं महापीठविधि शणु। . प्रासादस्य तु विस्तारं यत्तद्दण्डमिहोच्यते ।। १५४ ।। मूलहवें समालभ्य षडष्टमण्डलान्वितम् । दश द्वादशदण्डो वा मनुदण्डावसानकम् ।। १५५ ॥ षोडशेऽष्टादशे वाऽपि महापीठं प्रकल्पयेत् ।। अथवाऽन्यप्रकारेण पीठस्थानं विधीयते ॥ १५६ ॥ तृतीये चा चतुष्पश्च सालेऽयायाममध्यमे । महापीठं प्रकतेव्यं तस्य लक्षणमुच्यते ॥ १५७ ॥ मूलधामस्य द्वारोच्चमुत्तमं पीठविस्तृतम् । त्रिपादं मध्यम प्रोक्तं द्वारतुङ्गाधेकन्यसम् ।।१५८ ॥ शुद्धद्वारस्य विस्तारं मध्यमं पीठमुच्यते । द्विगणं मध्यमं प्रोक्तं त्रिगुणं श्रेष्ठमुच्यते ॥ १५९ ॥ अथवा व्योमहस्तं तु अधमं पीठविस्तृतम् । द्विहस्तं मध्यम प्रोक्तं त्रिहस्तं वृत्तमात्मकम् ॥ १६०॥
२०