________________
काश्यपशिल्पेऽष्टचत्वारिंशः पटलः । धनदस्य तु वामे च देवी कुर्यात्सलक्षणाम् । धनदो ह्येवमाख्यातः प्राग्वदिन्द्रान्प्रकल्पयेत् ।। १३१ ।। कालाग्निरुद्रमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना । चतुर्भुज त्रिनेत्रं च ज्वालामालोपशोभितम् ॥ १३२ ॥ खड्खेटकसंयुक्तं शशाङ्कपर्धधृतं परम् । रक्तवस्त्रधरं रौद्रं सर्वाभरणभूषितम् ॥ १३३ ।। रक्तोर्ध्वकेशसंयुक्तं सिंहासनोपरि स्थितम् । चतुर्भुज त्रिनेत्रं च नीलोत्पलसमप्रभम् ।। १३४ ।। करण्डमुकुटोपेतं सर्वाभरणभूषितम् ।। अभयं वरदोपेतं टङ्क-शूलधृतं परम् ।। १३५ ॥ रक्तवस्त्रसमायुक्तं पद्मपीठोपरि स्थितम् । श्रीकण्ठो ह्येवमाख्यातो नगदेवस्त्वथोच्यते ॥ १३६ ॥ त्रिनेत्रं चतुर्भुजं सौम्यं रक्तामं सितवाससम् ।। अभयं वरदोपेतं परहस्ते तु नागधृत् ।। १३७ ।। करण्डमुकुटोपेतं नागं पञ्चफणान्वितम् । सर्वाभरणसंयुक्तं पद्मपीठोपरि स्थितम् ।। १३८ । भीमश्चतुर्भुजो रौद्रः सर्वाभरणभूषितः । अभयं वरदं चैव शूलं पाशं च धारयेत् ॥ १३९ ।। सितवस्त्रधरश्चैव उग्रदृष्टिः सदंष्ट्रकः । सस्याङ्करनिभाभूमीनीलालकसमन्वितः ।। १४० ! करण्डमुकुटोपेतः सर्वाभरणभूषितः । पीताम्बरधरश्चैव प्रसन्नवदनान्वितः ।। १४१ ॥ पद्मं वाऽप्युत्पलं वाऽपि उभयोहस्तयोर्धतः । पद्मपीठोपरिष्टात्तु आसीनो वा स्थितस्तु वा ॥ १४२ ॥ शिखण्डः कञ्जनाभस्तु चतुर्भुजसमन्वितः। खड्गखेटकसंयुक्तः पमपीठोपरि स्थितः ॥ : ४३ ॥ मरुद्गणा धूम्रवर्णा द्विभुजाश्वसमुद्गराः । केशभारसमायुक्ताः सर्वाभरणभूषिताः ॥ १४४ ॥ दुकूलवसनाः सर्वे नानापुष्पैरलंकृताः । टशूलसमायुक्ताः पीनोरुजघनस्तनाः ।। १४५ ॥