________________
काश्यपशिल्पेऽष्टचत्वारिंशः पटलः। १५१ एवं लक्षणसंयुक्ता वाग्देवी परिकीर्तिता ।
अथ लक्ष्मीःलक्ष्मीः पद्मासनासीना द्विभुजा काञ्चनप्रभा ॥ ११७॥ हेमरत्नोज्ज्वलं तत्र कुण्डलं कर्णमण्डितम् । सुयौवना सुरम्याङ्गा कुञ्चितभ्रूः सविभ्रमा ॥ ११८ ॥ रक्ताक्षी पीनगण्डा च कञ्चचूद(काढयस्तनद्वयी । शिरसो मण्डनं शङ्खचक्रसीमन्तपङ्कजम् ।। ११९ ॥ अम्बुजं दक्षिणे हस्ते वामे श्रीफलमिष्यते । सुमध्या विपुलश्रोणी शोभनाम्बरवेष्टिता ।। १२० ॥ मेखलाकटिसूत्रा च सर्वाभरणभूषिता । एकाक्षसदृशस्त्वेकरुद्रं कुर्याद्विशेषतः ॥ १२१ ॥ पशुपतिं पूर्ववच्च स्थापयेदेशिकोत्तमः। धरो ध्रुवश्च सोमश्च आपस्त्वनल एव च ॥ १२२ ॥ अनिलः प्रत्युषाश्चैव प्रभावश्च तथैव च । वसवश्वाष्टकास्ते वै रक्तवर्णा द्विदोद्भिकाः॥१२३ ॥ पीताम्बरधराः सर्वे आसीना वा स्थिताश्च वा । खडखेटकइस्तास्ते सर्वाभरणभूषिताः ॥ १२४ ।। करण्डमुकुटोपेता रौद्राः सर्व प्रकीर्तिताः। कर्तव्यः पशुपतिवन् महादेवो द्विजोत्तम ॥ १२५ ॥ एकरुद्रवत्कर्तव्यस्त्रिमूर्तिदिजसत्तम । सत(धन)दः सवैयक्षेशः सवाभरणभूषितः॥ १२६ ।। तप्तकाश्चनसंकाशहस्तद्वयसमन्वितः । वरदाभयहस्तश्च गदां वा वामहस्तके ।। १२७ ।। पद्मपीठोपरिष्टात्तु द्विनेत्रो मेघवाहनः । रक्ताम्बरधरः सौम्यः शङ्खपद्मनिधीयुतः ।। १२८ ।। शङ्खपद्मनिधी द्वा च भूताकारमहाबल:(लो)। आसीनो पद्मपीठे तु पद्महस्तो द्विजोत्तम ॥ १२९ ॥ करण्डमुकुटोपेतों सितबासोत्तरीयको । दक्षिणेऽदक्षिणे शङ्खनिधि पद्मनिधि क्रमात् ॥ १३० ॥