________________
. १५०
काश्यपशिल्पेऽष्टचत्वारिंशः पटलः
आसने तूभयागाद्धि (यौ चाङ्घी) रोधयेत्तु परस्परम् । मेढमूलोपरिष्टात्तु वामहस्तोर्ध्ववत्क्रकम् ॥ १०३ ॥ सव्यहस्तं च तस्योर्ध्वे तत्र न्यस्त्वा समस्थितम् । दक्षिणे चाक्षमालां च वामहस्ते कमण्डलुम् ॥ १०४ ॥ सरस्वती दक्षिणे (दक्ष) भागे सावित्री वामपार्श्व के आसीना वा स्थिता वाऽपि पद्मपीठोपरि द्विज ॥ १०५ ॥ शिवोऽसमश्वेतवर्णश्वतुदर्भिः समन्वितः । सर्वाभरणसंयुक्तः शुक्लवस्त्रोपवीतकः ।। १०६ ।। नेत्रद्वयसमायुक्तः करण्डमुकुटान्वितः । अभयो वरदोषेतः शूलपाशभृतः शुचिः ॥ १०७ ॥ पद्मपीठोपरिष्टात्तु स्थानकं समपादकम् !
भृगुः
3. शुकनिभः शान्तः शुक्लवस्त्रधरस्तथा ॥ १०८ ॥ करण्डमकुटोपेतो हस्तद्वयसमन्वितः । अभयो वरदोपेतः सर्वाभरणभूषितः ।। १०९ ।। स्थानकं वाssसनं वाऽपि पद्मपीठो भृगुः शुभः | पूर्वमेवोदितस्त्वीशस्तथाऽगस्त्यं कल्पयेत् ।। ११० ॥ अगस्त्यवत्कौशिकं च स्थापयेत्स्थापकोत्तमः । एकनेत्रश्चतुर्बाहुर्नेत्रत्रयसमन्वितः ॥ १११ ॥ क्षौमवस्त्रधरः शान्तो बन्धूककुसुमप्रभः । जटामुकुटसंयुक्तः सर्वाभरणभूषितः ॥ ११२ ॥ अभयो वरदोपेतो टङ्कशूलसमन्वितः । विनेशं पूर्ववत्कृत्वा स्थापयेदेशिकोत्तमः ॥ ११३ ॥ अथ सरस्वती
सरस्वती चतुर्हस्ता श्वेतपद्मासनान्विता । जटामुकुटसंयुक्ता शुक्लवर्णा सिताम्बरा ।। ११४॥ यज्ञोपवीत संयुक्ता रक्तकुण्डलमण्डिता । सर्वाभरणसंयुक्ता मुक्ताहारा सुलोचना ॥ ११५ ॥ व्याख्यानं चाक्षसूत्रं च दक्षिणे तु करद्वये । पुस्तकं कुण्डिका चापि त्रिनेत्रा चारुरूपिणी । ऋग्यजुःसामभिस्तेन मुनिभिः सेविता वरा ॥ ११६ ॥