________________
काश्यपशिल्पेऽष्टचत्वारिंशः पटलः । अभयश्चतुर्भुजः शान्तो जटामुकुटमण्डितः। अतिरक्तः समाख्यः सर्वाभरणभूषितः ।। ८८ ।। हिरण्यसदृशप्रख्यो दुकूलवसनान्वितः। अभयो वरदोपेतः शूलपाशधरो भवः ॥ ८९ ॥ भोगिहस्तद्वयोपेतः सौम्यात्मा च द्विनेत्रकः । अत्यन्तसुन्दरी शान्ता सर्वाभरणभूषिता ।। ९० ।। नानागन्धानुलिप्ता वा वा(पी)तपुष्पोपशोभिता । करण्ड(कुरण्ट)मकुटोपेता पद्मपीठोपार स्थिता ॥ ९१ ।। किंश्चिद्विलक्षकुक्षी च दी(पी)नोरुजघनस्तना । दुकूलपट्टदेवाङ्ग नानावस्त्रधरा वरा ॥ ९२ ॥ . सस्यश्यामनिभाकारा रक्तोत्पलक्करा (धरा करे)। आजानुलम्बहस्ता च सर्वत्रं समभङ्गिका ॥ ९३ ॥ सूक्ष्मानिलनिभा शान्ता हेमवस्त्रधरा वरा । चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता ।। ९४ ।। अभया वरदोपेता टङ्क-शूलधरा तथा । गौरीलक्षणमाख्यातं यथासकललक्षणे ।। ९५ ॥ तयैव कारयेद्धीमान् स्थापयेत्केवलात्मिकाम् ।। शर्वश्चतुर्भुजः शान्तः सर्वाभरणभूषितः ।। ९६ ॥ जटामुकुटसंयुक्तः शङ्खकुन्देन्दुसंनिभः । अभयो वरदोपेतः खड्गखेटकधारकः ॥ ९७ ॥ पद्मपीठोपरिष्टात्तु स्थानकः शर्व एव हि । चतुर्वेत्क्रश्चतुर्बाहुहेरितास्थ(ल)समप्रभः ।। १८ ।। जटा मुकुटसंयुक्तः पिङ्गाक्षः सर्पभूषणः । कृष्णाजिनोत्तरीयश्च यज्ञसूत्रसमन्वितः ॥ ५९॥ शुक्लवस्त्रधरः शान्तः कटिसूत्रः समेखलः। शुक्लमाल्यानुलेपश्च कर्णो कुण्डलमण्डितौ ॥ १०.। दक्षिणे चाक्षमालां च कूर्च चैव तु धारयेत् । कमण्डलुं कुशं वामे दक्षिणे सुक्नुवौ तथा ॥ १०१॥ आज्यस्थाली कुशांश्चैव वामहस्ते तु धारयेत् । अभयं वरदौ पू(वरदाभययुक्पूर्वहस्तौ वाऽथ द्विजोत्तम ॥१०२॥