________________
काश्यपशिल्पेष्टचत्वारिंशः पटलः। शूलं खङ्गं च घण्टां च दक्षिणे तु करत्रये । खटकं च कपालं च नाग पाशं तु दक्षिणे ॥ ७४ ।। तामसे तु धनुर्वाणं दक्षिणे तु करे धृतम् । शेषं राजसवख्यातं रक्तकेशोज़मण्डलम् ।। ७५ ॥ उग्रदष्टिसमायुक्तं नानानागविभूषितम् । त्रिनेत्रमग्निरूपं च क्षेत्रपालं प्रकल्पयेत् ॥ ७६ ॥ ईशो वै द्विभुजः शान्तः सर्वाभरणभूषितः । जटामुकुट संयुक्तः शुक्लवस्त्रद्युतिः स्थितः ॥ ७७ ॥ शुक्लयज्ञोपवीतश्च शुक्लपद्मोपरि स्थितः । शूलं दक्षिणहस्ते तु कपालं वामहस्तके ।। ७८ ॥ ईश एवं समाख्यातस्ततो बै भास्करः क्रमात् ।
अथ भास्करलक्षणम् । द्विभुजाः पद्महस्ताश्च रक्तपद्मासने स्थिताः ।। ७९ ॥ रक्तमण्डलसंयुक्ताः करण्डमुकुटान्विताः । रक्ताम्बरधराः सर्वे सवोभरणभूषिताः ॥ ८० ॥ छन्नवीरसमायुक्ता भास्करा द्वादशस्मृताः । विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः ।। ८१ ॥ लोकपाल: प्रकाशश्च लोकसाक्षी त्रिविक्रमः । आदित्यश्च सथा सूर्यः, अंशुमाली दिवाकरः ।। ८२ ।। एते वै द्वादशाऽऽदित्या उत्तरादिक्रमात्स्थिताः । एवं षोडश संख्याता द्वात्रिंशदथ वक्ष्यते ॥ ८३ ॥ सौम्यचतुर्भुजोऽनन्तः सर्वाभरणभूषितः । जपापुष्पनिभाकारः करण्डमुकुटान्वितः ।। ८४ ।। सितवस्त्रधरः शान्तस्त्रिनेत्रः पद्मसंस्थितः । अभयं वरदोपेतं कटकं शूलधृच्छुचिः ॥ ८५ ।। अर्कश्चतुर्भुजः शान्तः सर्वाभरणभूपितः । हिरण्यसदृशप्रख्यः, दुकूलवसनान्वितः !! ८६ ॥ अभयो वरदोपेतं खड्गखेटकधारकः । सुस्थितः पत्रपीठे तु आर्यमेवं प्रकल्पयेत् ।। ८७ ॥