________________
काश्यपशिल्पेऽष्टचत्वारिंशः पटलः।
१४७
कुञ्चितभुज(भुग्नबाहु)युतो वायुः शवलाम्बरभूषितः । नानाभरणसंयुक्तः केशैस्तु सविकर्णकः ॥ ६० ॥ सिंहासनोपरिष्टात्तु शीघ्रयात्रोत्सुकः स्थितः । वायुरेवं समाख्यातो रुद्रलक्षणमुच्यते ।। ६१ ॥
अथ रुद्रलक्षणम्चतुर्भुजास्त्रिनेत्राश्च जटामुकुटमण्डिताः । श्यामवस्त्र धराः सर्वे शक्लवर्णाः प्रकीर्तिताः ॥ ६२ ॥ समपादस्थानकाच पद्मपीठोपरि स्थिताः । सवोभरणसंयुक्ताः सपुष्परलंकृताः ।। ६३ ॥ अभयं परशं सव्ये कृष्णं वरदवामके । महादेवः शिवो रुद्रः शंकरो नीललोहितः ॥ ६४॥ ईशानो विजयश्चेशो देवदेवो भवोद्भवः । कपालीशस्त्विति ज्ञेया रुद्रास्त्वेकादश स्मताः ।। ६५ ।। सोमसिंहासनासीनं कुन्दशङ्खनिभयु(धु)तिम् । प्रभामण्डलसंयुक्तं द्विभुजं सोम्यवक्र (क्त्र)कम् ।। ६६ ।। आसीनं वा स्थितं वाऽपि कुमुदोत्पलहस्तकम् । हेमयज्ञोपवीताङ्गं सर्वाभरणभूषितम् ॥ ६७ ।। शुक्लवस्त्रधरं शान्तं सर्वपुष्पैरलंकृतम् । त्रिविधं क्षेत्रपालं तु सात्त्विक राजसं तमः ॥ ६८ ॥ श्वेतं रक्तं तथा कृष्णं सात्त्विकादिगुणं भवेत् ।। द्विभुजं चतुर्भुज शान्तं राजसं षड्भुजान्वितम् ।। ६९।। तामसं चाष्टदोर्दण्डं त्रिनेत्रं समपादुकम् । स्थानकं पद्मपीठे तु भद्रपीठे तु वा यथा ।। ७० ।। शूलं दक्षिणहस्ते तु कपालं वितरे धृतम् । द्विभुज ह्येवमाख्यातं चतुर्हस्तमथाच्यते ।। ७१ ।। परहस्तं तु सव्ये च खट्वाङ्गं खड्मन्यके । अथवा पूर्वहस्ते तु अभयं वरदान्वितम् ।। ७२ ॥ पूर्ववत्परहस्तो द्वौ घण्टिके वामहस्तके । सात्त्विकं ह्येवमाख्यातं राज शणु सुव्रत ॥ ७३ ॥