________________
काश्यपशिल्पेऽष्टचत्वारिंशः पटलः । पीतवस्त्रधरं रौद्रं करालमुखदंष्ट्रकम् । सर्वाभरणसंयुक्तं शवारूढं जगत्पतिम् ॥ ४७ :: रक्तकेशसमायुक्तं स्थितं वासितमेव वा । निऋतिस्त्वेवमाख्यातस्ततस्त्वप्सरसः शणु ॥४८॥
अथाप्सरोलक्षणम्-- अतिकान्तियुता रक्ताः केशभारालकान्विताः । नानाबन्धनसंयुक्ता नानापुष्पैरलंकृताः ॥ ४९ ॥ दुकूलबसनाः सर्वाः पीनोरुजघनस्तनाः ।। मध्यसूक्ष्माश्च सौम्याश्च किंचित्प्रहसिताननाः ॥ ५० ॥ नानागन्धानुलिप्ताङ्गा भद्रपीठोपरि स्थिताः । समभङ्ग-युताः सप्त संख्या अप्सरसां गणः ॥ ५१ ॥ अप्सरस्त्वेवमाख्याता वरुणस्त्वथ वक्ष्यते ।
__ अथ वरुणलक्षणम्वरुणः श्वेतवर्णस्तु द्विभुनः पाशहस्तकः ।। सर्वाभरणसंयुक्तः करण्डमुकुटान्धितः । पीतवस्त्रधरः शान्तो महावलसमन्वितः॥ ५३ ॥ यज्ञसूत्रसमायुक्तो मकरस्तो(स्था)नकासिन(स)नः । ऋषयः पीतवास्तु नानावर्णाम्बरान्विताः ॥ ५४॥ वृद्धाश्च द्विभुजाः शान्ता जटाचूडासमन्विताः । चुलुकाहृदयान्ताश्च यज्ञोपवीतसंयुताः ॥ ५५ ॥ भस्मनैव त्रिपुण्डः स्यात्स्थानकावसनं तथा । दण्डं दक्षिणहस्ते तु च्छत्रं वामकरोद्धतम् ।। ५६ ।। छत्रदण्डौं विना वाऽथ सव्ये तु ज्ञानमुद्रिका । वामजानपरिन्यस्तवामहस्तसमन्विताः ॥ ५७ ।। भृगुंरगस्त्य वासिष्टगोतमाङ्गिरसस्तथा । विश्वामित्रो भरद्वाज ऋषयः सप्त कीर्तिताः ।। ५८ ॥
अथ मरुल्लक्षणम्द्विभुजस्तु महावीर्यों धूम्राक्षी धूम्रसंनिभः । ध्वजं वै दक्षिणे हस्ने वामहस्ते चं दण्डधृक् ।। ५९ ।।