________________
काश्यपशिल्पेऽष्टचत्वारिंशः पटलः ।
अथ पितरः पितरः पीतवर्णाभा वृद्धास्ते केशवुध्नताः । यज्ञसूत्रसमायुक्ता द्विभुजाः श्वेतवाससः ॥ ३४ ॥ नागाभरणसंयुक्ताः शशितुल्यनिभाननाः ॥ ३५ ॥ फलका भद्रपीठस्थाः पितरस्तु महासनाः ।। वामजानूपरिन्यस्तवामहस्तसमन्विताः ॥ ३६ ।। मूचिदक्षिणहस्तास्तु पितरस्तुय(तृणां रूप)मुच्यते । पितरस्तु समाख्याताः शृणु वैवस्वतं ततः ।। ३७ ।।
___ अथ वेवस्वतः । द्विभुजं कृष्णवर्ण तु खङ्गखेटकधारिणम् । करालदंष्ट्रवदनं रक्तमाल्यानुलेपनम् ॥ ३८ ॥ रक्तवस्त्रधरं चोग्रं किरीटमुकुटाञ्चितम् । दीप्ताग्निसदृशाक्षं च महामहिषवाहनम् ॥ ३९ ॥ वैवस्वतस्य पार्श्वस्थौ समीपस्थौ ग्रहोग्रको । चित्रगुप्तः किंनरश्च द्वारपाचे तु संस्थिता ।। ४० ।। कृष्णश्यामनिभौ तौ च रक्तवस्त्रधरावुभौ । पीठपाचे स्थितौ मृत्युसहितौ व्य(नावु)ग्रतेजसौं । ४१ ॥ नीललोहितसंकाशौ द्वौ चामरतस्त्रिया ।। पुरतः संस्थिती विप्र शर्मधर्मसमाह्वया ॥ ४२ ॥ यमः सिंहासनासीनो महिषोरोहितस्तथा । यमलक्षणमाख्यातं रोहिणीलक्षणं शृणु ॥ ४३ ।।
____ अथ रोहिणीलक्षणम्द्विभुजा करण्डमुकुटा रक्तवर्णा सुशोभना । सर्वाभरणसंयुक्ता नागहस्ता सिताम्बरा ॥ ४४ ॥ आसीना वा स्थिता वापि सप्तसंख्या हि रोहिणी। रोहिण्येवं समाख्याता नैतर्लक्षणं ततः ॥ ४५ ॥
अथ निऋतिलक्षणम्--- नितिनीलवर्णस्तु द्विभुजश्चमहातनुः । खड्गं दक्षिणहस्ते तु वामहस्ते च खेटकम् ।। ४६ ।।