________________
काश्यपशिल्पेऽष्टचत्वारिंशः पटलः । पद्मपीठोपरिस्थं तु सस्यया(श्या)ननिभाकृतिम् । आसीनं वा स्थितं वाऽपि सव्यसव्ये श्रियान्वितम् ॥ २१ ॥ संयुक्त वा केवलां वा विष्णुमति प्रचक्षते । एकवक्त्रां द्विहस्तां च जातिलिङ्गसममभाम् ।। २२ ॥ ईषद्विजृम्भपनो द्वौ स्कन्देनैच करोधृतौ । करण्डमुकुटोपेतं सर्वाभरणभूषितम् ॥ २३ ॥ शक्तिं दक्षिणहस्ते तु वामहस्ते कुशान्वितम् । विशालोदरं तथा(लजठर ग्रीवं वामे शशिसमन्वितम् ॥२४॥ द्विनेत्रं सौम्यवदनं सिंहासनोपरि स्थितम् । आसीनं वा प्रकर्तव्यं गजारूढमथापि वा ।। २५ ॥ इन्द्रमेवं समाख्यातमश्विनावथ वक्ष्यते(म्यहम्) ।
अश्विनोलक्षणम्--- भद्रसिंहासनासीनावश्विनौ विश्वरूपिणी ॥ २६ ॥ दाडिमीपुष्पसंकाशावभयो सोपपीनता(ठको)। फुल्लरक्तोत्पलाक्षौ च कमण्डलु सुधारिणौ ॥ २७ ॥ नासत्यो दस्रनामानौ चूडामुकुटधारिणौ । करद्वयसमायुक्तौ स्रग्भूषणविभूपितौ ॥ २८ ॥ अभयं दक्षिणे हस्ते पुस्तकं वामहस्तके । लम्बितौ दक्षिणौ पादौ वाममुत्कुटिकासनौ ॥ २९॥ देवानां भिषजावेतो द्वौ चिकित्साविधायकौ । तयोः पार्श्वद्वये विप्र ... वामे च.... दक्षिणक्रमात् ॥ ३० :: धृतिः संजीवनीचैव संस्थिती चामरौ धृती। पृष्ठे विशल्यकरणी द्वे स्त्रियौ पीतपिङ्गलौ ॥ ३१ ।। वामे धन्वन्तरिश्चैव वामात्रेयस्तथैव च । पीतरक्तनिभावतों संगतौ कृष्णवाससौ ॥ ३२ ॥ खड्गखेटकसंयुक्तों सर्वाभरणभूषितौ । अश्विनौ तु समाख्यानो वह्निः पूर्ववदेव हि ॥ ३३॥