________________
काश्यपशिल्पेऽष्टचत्वारिंशः पटलः । लम्बमानस्तना कुक्षिनीला वा रक्तवाससी । उत्पलं दक्षिणे हस्ते वामे तु करकं न्यसेत् ॥ ८ ॥ भद्रपीठे सुखासीना द्विपादं चैव लम्बिता । सवाभरणसंपन्ना वाचिकाबन्धकूटिका ।। ९ ॥ काकध्वजसमायुक्ता सानुगा तिलकान्विता । तस्या दक्षिणपार्वे तु वृषो वै वृषवाहनः ॥ १० ॥ द्विभुजे दक्षिणे हस्ते दण्डं वामेन सूचिधृत् । . लम्बितं दक्षिणं पादं वाममुत्कुटिकासनम् ।। ११ ।। श्वेतवर्णो महाकायः सर्वाभरणभूषितः । करण्डमुकुटोपेतो दुकूलवसनान्वितः ॥ १२ ॥ वृषं वे दक्षिणे त्वेवं वामे त्वग्निमयोच्यते । सुस्तना यौवनाङ्गा च सर्वाभरणभूषिता ॥ १३ ॥ कृष्णाञ्ज ननिभा रक्ता वस्त्रेणैव विभूषिता । एवं ज्येष्ठा समाख्याय दुर्गालक्षणमुच्यते ॥ १४ ॥ चतुर्भुजा द्विनेत्रा च सा तु स्यामनिभापरा। . सौम्या पीताम्बरोपेता पीनोरुजघनस्तना ॥ १५ ॥ करण्डमुकुटोपैता सर्वाभरणभूपिता। अभयं दक्षिणे हस्ते कटकं वामहस्तके ॥ १६ ॥ परहस्ते तु सर्वेषां चक्रं वामे तु शङ्खधृत् । . समपादस्तनां कुर्यात्पद्मपीठोपरिस्थिताम् ॥ १७ ॥
नागेन्द्रेण स्तनं बद्ध्वा रक्तकञ्चुकधारिणी।। . एवं दुर्गा समाख्याता विष्णुलक्षणमुच्यते ॥ १८ ॥
विष्णुलक्षणम्विष्णु किरीटमुकुटकटिसूत्रादिमण्डितम् । पीताम्बरधरं सौम्यं चतुर्भुजसमन्वितम् ।। १९ ।। अभयं दक्षिणे हस्ते कटकं वामहस्तके। . गदापमं च वामे तु शङ्खचक्रं तु दक्षिणे ॥ २० ॥