________________
काश्यपशिल्पेऽष्टचत्वारिंशः पटलः । . ईपद्वक्रतनुर्वामे कर्तव्यं तु विशेषतः । व्यालयज्ञोपवीतं तु किरीटमुकुटान्वितम् ॥ २९ ॥ करं मुकुटकूटं वा जटामौलिकमेव वा । सर्वाभरणसंयुक्तं महाकायं महोदरम् ॥ ३०॥ एवं विनायकं ख्यातं शृणु षण्मुखलक्षणम् ।। ३१ ।। इति काश्यपे विनायकलक्षणं सप्तचत्वारिंशः पटलः ।
अथाष्टचत्वारिंशः पटलः--
पण्मुखलक्षणम् ।
पञ्चतालोक्तमेनैव (मानेम) स्कन्दं कुर्याद्विलक्षणम् । मानोन्मानादगा(दिक) सर्व प्रोक्तं वै स्कन्दलक्षणे ॥ १ ॥ द्विभुजं वा चतुर्हस्तं पड्भुजं भानुहस्तकम् । शक्ति बाणं च खङ्ग च चक्रं प्रासप्रसारितम् ॥ २ ॥ सव्ये वामे तु पिच्छं तु खड्गकाकूटकं तथा । धनुर्दण्डं हलं चैव भानुहस्तान्विते स्थितम् ।। ३ ।। षड्भुजस्य द्वयं खङ्गं शक्तिर्दक्षिणपार्श्वके । खेटकं चाक्षमाला च कुक्कुटं वामहस्तके ।। ४ ॥ चतुर्भुजेऽभयं शक्ति दक्षिणे तु करद्वयम् । कुक्कुटं चाक्षमाला च वामहस्ते धृते गुहः ॥ ५ ॥ द्विभुजं कुक्कुटं वामे शक्तिदक्षिणहस्तके । अनुक्तं तु यत्सर्व उमास्कन्दसहोक्तवत् ॥ ६॥ स्कन्दलक्षणमाख्यातं अष्ठाविधिमतः परम् ।
अथ जेष्ठादेवीलक्षणम्-- द्विभुजाऽनलसंकाशा लेम्बोष्ठा तुङ्गनासिका ॥ ७ ॥