________________
काश्यपशिल्पे सप्तचत्वारिंशः पटलः । अघरस्य तु निष्क्रान्तं लम्बनद्वयमङ्गलम् । नेत्रायाम विशालं च षडयवं परिकीर्तितम् ॥ १४ ॥ कण्ठं भूताङ्गुलव्यासमुत्सेधं चैव तद्भवेत् । अर्धाङ्गुलं घनं तस्य कर्णमूलं द्वयागु-लम् ॥ १५ ॥ यद्गजाननं तद्वत्कर्तव्यं तु मुखं द्विज । घाटो(हु)पर्यन्तविस्तारं द्वात्रिंशदगुलं भवेत् ॥ १६ ॥ एकोनविंशदगुल्यं कक्षान्तरमुदाहृतम् । स्था(स्त)नान्तरं दशाङ्गुल्यं हिकायाश्च द्विजो बहिः ॥ १७॥ स्था(स्त)नाभं द्वय (द्वि)यवव्यासं यमुलं स्तनमण्डलम् । स्था(स्त)नाधःस्थविशालं तु त्रिपञ्चाङ्गुलमुच्यते ॥ १८ ॥ द्वाविंशदङ्गलं ख्यातं मध्योदरविशालकम् । नाभिनिम्नविशालं तु अत्यर्था(र्धा)ङ्गलमुच्यते ॥ १९ ॥ लिङ्गायामं गुणाहुल्यं तस्यार्धं तस्य विस्तृतम् । मुष्कायामविशालं तु गुणाङ्गुलमुदाहृतम् ॥ २० ॥ ऊरुच्यासं तु भान्वंशं जानुव्यासं नवाङ्गलम् । जनामूलविशालं तु सप्तमात्रमुदाहृतम् ।। २१ ।। नखविस्तृतकं चापि साधे द्वयङ्गुलमुच्यते । तदनं स्यात्तदासार्थ षण्मात्रमिति विद्यते ॥ २२ ॥ पोष्ण्यायामविशालं तु गुणाङ्गुलमुदाहृतम्। : द्वादशाओं षडष्टौ च पञ्च पटक यवं क्रमात् ॥ २३ ।। अङ्गुष्ठादिकनिष्ठान्तं पादाङ्गुलविशालकम् । सत्रिपादनवव्यासं तदोयतमण्डलम् ॥ २४ ॥ स्थानकं वाऽऽसनं वाऽपि पद्मपीठे विशेषतः । स्वदन्तं दक्षिणे वा(ह)स्ते वामहस्ते कपिण्डके ॥ २५ ॥ मोदकं गजहस्ते तु अङ्कुशं दक्षिणे करे । वामहस्ते तु पाशं वा नागं चैवाक्षमालिका ॥२६॥ त्रिनेत्रं हेमसंकाशं दुकूलवसनान्वितम् । अभङ्ग समभङ्ग वा स्थानके तु प्रकल्पयेत् ॥ २७ ॥ आसनं स्वासनं चेत्तु वामपादं तु चायतम् । मानान्तरे मूर्थिन पादे पादौ तु कुटिकां विना ॥ २८ ॥