________________
काश्यपशिल्पे सप्तचत्वारिंशः पटलः ।
अथ सप्तचत्वारिंशः पटलः ।
विनायकलक्षणम्अथ वक्ष्ये विशेषेण विनायकस्य लक्षणम् । पादाशुष्णीषसीमान्तं चतुःषष्टयंशकं भवेत् ॥ १ ॥ मूर्धमस्तकसीमान्तमङ्गुलद्वयमुच्यते । तस्माद्वैतेन सूत्रान्तं चतुर्मात्रमुदाहृतम् ॥ २ ॥ करू षडर्धमात्रं स्याजानुदीर्घ गुणाकुलम् । जङ्घा चोरुसमं दीर्घ गुणांशं पादत(पत्त)लोदयम् ॥३॥ सप्ताङ्गुलं तथायाममङ्गुष्ठाग्रावसानकम् । पादाङ्गुष्ठायतं द्वयंशं सार्धाशं तु कनिष्ठिका ॥ ४ ॥ तर्जन्यादिकनिष्ठान्तं प्रत्येकं तु करोन्नतम् । त्रयोदशाङ्गुलं बाहू प्रकोष्ठाया(वा)नवाङ्गुलम् ॥ ५ ॥ चतुर्मात्रं तलायाममग्न्यंशं मध्यमाङ्गुलम् । तर्जन्यनामिके द्वे च एकविंशत्यवायतम् ॥ ६ ॥ कनिष्ठागुष्ठयोश्चैव दीर्घ सप्तदशायतम् । द्वादशाष्ट नवाष्टौ च सप्तसंख्यायचं(त)क्रमात् ॥ ७ ॥ अजष्ठादिकनिष्ठान्तं व्यासमित्यभिधीयते । तत्तद्वयासत्रिपादं स्यान्नखव्यासमुदाहृतम् ।। ८ ।। नखव्यासत्रिपादं स्यान्नवदीर्घायवृत्तवत् । खेदं करतलव्यासं मणिमन्नोदकं भवेत् ॥ ९ ॥ प्रकोष्टकं युगामुल्यं बाहुव्यासं विडधेकम् ।। बाहुमूलं तु वस्वंश हस्नकोष्ठाकुलान्तकम् ॥ १० ॥ सप्ताङ्गुलं तु तानन्मो(नं) मुखमध्ये दशाङ्गुलम् । हस्तमूलं षडङ्गुल्यं द्वाविंशत्यस्यदीधेकम् ।। ११ ।। तदअन्लानविस्तारं सार्थमात्रं द्विजोतम । क्रमेण कृशता हस्ते तन्मध्ये सुषिरद्वयम् ॥ १२ ।। वामदन्तायतं वेदमात्रमित्यभिधीयते ।। दक्षिणे दन्तमूलं स्याद्वामाख्यमतलं भवेत् ॥ १३ ॥