________________
काश्यपशिल्पे षट्चत्वारिंशः पटलः ।
चतुर्भुजा त्रिणे (नेत्रा च अतिरक्तसमप्रभा । शूलाभयकराऽसर्वे(ब्ये) वामे व हस्तका || ७४ ॥
जपमालासमायुक्ता जटामुकुटसंयुता । ईश्वरेण समापा ईश्वरीति प्रकीर्तिता ॥ ७५ ॥ चतुर्भुजा त्रिनेत्रा च रक्तवस्त्रनिभान्विता । सर्वाभरणसंयुक्ता वाचिका बद्धकुट्टिम ।। ७६ ।। शक्तिकुक्कुटहस्ता च वरदाभयपाणिका |
मयूरध्वजत्राही (ह्या) च उदुम्बरसमाश्रिता || ७७ ||
शङ्खचक्रधरा देवी वरदाभयपाणिका ।
१३१
सुस्तना चारुवदना श्राम्या (श्यामा) मा च सुलोचना || ७८ || पीताम्बरधरा देवी किरीटमुकुटान्विता ।
राजवृक्षं समाश्रित्य गरुडध्वजवाहिनी ॥ ७९ ॥ वैष्णवीं कारयेदेवीं विष्णुभूषणभूषिताम् । करञ्जद्रुमसंयुक्ता महिषध्वजवाहिनीम् ॥ ८० ॥ चतुर्भुजां त्रिनेत्रां च सर्वाभरणभूषिताम् । किरीटमकुटोपेतां विद्रुमस्य निभाननाम् || ८१ ॥ अङ्कुशं चाभयं सव्येऽवामे वरदशक्तिनी । कल्पद्रुमं समाश्रित्य गजध्वजाऽजवाहिनी ॥ ८२ ॥ चतुर्भुजा त्रिनेत्राच रक्तवर्षा(र्णो )र्ध्व केशिनी ! कपालशूलहस्ता च वरदाभयपाणिनी ॥ ८३ ॥ शिरोमालापरीता च पद्मपीठोपरि स्थिता | व्याघ्रचर्माम्बरधरा नागेन्द्राच्छादितस्तनी ॥ ८४ ॥ दंष्ट्राकरालवदना वटवृक्षसमाश्रिता ।
चामुण्डालक्षणं ह्येव मेकबेरं च तद्भवेत् ।। ८५ ।। दक्षपादस्थिताः सर्वा वामपादं तु लम्बितम् | एवं वै सप्तमातॄणां लक्षणं कथितं मया ॥ ८६ ॥
इति काश्यपशिल्पे सप्तमातृकालक्षणं षट्चत्वारिंशः पटलः ।