________________
१३८
काश्यपशिल्पे षट्चत्वारिंशः पटलः ।
अनलेश्वरलक्षणम्-- उत्तमं दशतालेन कर्तव्यमनलेश्वरम् । द्विवक्त्रं वेकहृदयं द्विनासी च षट्कुक्षि तु ॥ ६२ ॥ त्रिमेखलं त्रिपादं च सप्तजिह्वाभिरावृतम् । दक्षवक्त्रे [चतुर्जिह्वा वामवक्त्रे त्रिजिह्वया ॥ ६३ ।। मेषारूढं चतुःशृङ्गं मटामुकुटमण्डितम् । इक्षिणे तु चतुहेस्तं वामपाचे त्रिहस्तकम् ॥ ६४ ॥ उपाशक्तिरग्निस्तथा सुक्खुवं वै दक्षिणोत्तरे । ( शक्ति मन्नं नुक्नुवौ च विभ्रद्वै दक्षिणेकरे ) ।। तोपरं व्यजनं वामे घृतपात्रं विशेषतः ।। ६५ ।। वपुः स्वर्णमिदं ख्यातं नेत्रेपिङ्गलसंनिभम् । प्रभामण्डलसंयुक्तं पद्मपीठोपरि स्थितम् ।। ६६ ।। दुकूलबसनोपेनं कल्पयेदनलेश्वरम् ।
सप्तमातृकालक्षणम् - ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ ६७ .। वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः। दक्षिणेऽदक्षिणे चैव वीरभद्रविनायकौ ॥ ६८ ॥ चतुर्भुजो त्रिनेत्रौ च जटामुकुटमण्डितौ । सर्वाभर संयुक्तौ श्वेतवर्णवृषध्वजौ ॥ ६९ ॥ सशूलाभयहस्तौ च दक्षिणे तु करद्वयम् । गदावरदहस्तौ च वामपार्श्वे करद्वयम् ॥ ७० ॥ श्वेतपद्मासनासीनौ वटवृक्षसमाश्रितो । चतुर्वक्त्रचतुर्बाहुसंयुक्तौ हेमसंनिभौ।। ७१ ॥ दक्षिणाभ यशूलं च वरदं चाक्षमालिकाम् । शतपद्मासनानीत (सीना) हंसवाहनकौतुका ।। ७२ ॥ जटामुकुटसंयुक्ता पीताम्बरधरा वरा। ब्राह्मणीत्येवमाख्याता ब्रह्मवृक्षसमन्विता ।। ७३ ।।