________________
काश्यपशिल्पे षट्चत्वारिंशः पटलः ।
१३७ जिह्वायामविशालोचं त्रिद्वयेकाङ्गुलमुच्यते । ग्रीवाव्यासो दशांशः स्यात्तन्मूलं द्वादशाङ्गुलम् । ४७ ।। पृष्ठग्रीवस्य मूलस्य व्यासमष्टाङ्गुलं भवेत् । पृष्ठग्रीवायविस्तारं षडङ्गुलमुदाहृतम् ॥ ४८॥ ककुदुच्चं चतुर्मानं तस्य व्यासं षडमुग्लम् । ग्रीवस्याग्रघनं चापि अत्यर्धाङ्गुलमुच्यते ॥ ४९ ॥ शरीरे मध्यमे वा(व्या)सं चतुर्विंशाङ्गुलं भवेत् । अपरे व्यासभान्वंशं शक्तियुक्त्या समाचरेत् ।। ५० ।। पूर्वपादोरुमूलस्य व्यासं पञ्चाङ्गुलं भवेत् । तदृश्योग्रं चतुमात्रं जङ्घामूलं च तत्समम् ।। ५१ ।। जयाग्रं गुणमात्रं स्यात्साधोग्न्यंशं खुरास्तृतम् । अपर चोरुमूलं स्याद्वयासवेदं क्रमात्कृतम् ॥ ५२ ।। अग्रमष्टाङ्गुलं व्यासं मा(व्या)समूलं पडङ्गुलम् । जङ्घाग्रं चतुरगुल्यं खुरस्या(व्या)सं युगांशकम् ।। ५३ ॥ ऊरुपञ्चागुलायाम जानुदीर्घ द्विमात्रकम् । जयापश्चाङ्गुलं दीर्घ त्रिमानं खुरमानकम् ॥ ५४॥ पुच्छव्यासं त्रिमात्रं वा मूलाग्रे साधमात्रकम् । पुच्छं जाग्रसीमान्तं बालयेत्तु विशेषतः ।। ५५ ।। पुच्छाग्रे केशसहितव्यासं वेदाङ्गलं भवेत् । मूलाग्रं चकमानं स्यात्केशदीर्घ युगाङ्गुलम् ॥ ५६॥ बीजायामविशालं तु सर्व वन्ह्यङ्गुलं क्रमात् ।। दिमात्रं घनमित्युक्तं शेषायाम युगाङ्गुलम् ।। ५७ ॥ उदयादगुलवत्प्रघनमित्यभिधीयते ।। स्थितं वा शयितं वाऽपि पझे वा भद्रपीठ के ।। ५८ ॥ धुधस्पष्टकागर्भशिलालोहाक्तमेव वा । (?) स्वर्णजं ताम्रजं वाऽपि लोहनं वृषभं कुरु ॥ ५९॥ किंचिद्धीनं न कर्तव्यं मानोन्मानप्रमाणके। तदा कर्तुस्तु कर्तृत्वं तस्माल्लक्षणमन्वितम् ।। ६० ।। कर्तव्यं विपरीतं चेद्विपरीतफलप्रदम् । वृषभे लक्षणं ख्यातं शृणु वह्वेस्तु लक्षणम् ॥ ६१ ॥