________________
काश्यपशिल्पे षट्चत्वारिंशः पटलः । परिवारालये द्वारगर्भमानं नयेदुधः । सकलानां तु यन्मानं तन्मानं तत्र गृह्यताम् ॥ ३२ ॥ सर्वस्य स्थानकं वासनं तु वा ।(१) द्वात्रिंशत्परिवारं तु जातिहम्ये प्रकल्पयेत् ॥ ३३ ।। छन्दं तु षोडशं ख्यातं शेषेषु त्वष्टकं भवेत् । अथवा सर्वहम्येषु सर्व वा परिकल्पयेत् ॥ ३४ ॥ ना(जा)त्यायांशकभाती(माना)नि प्रतिमालक्षणोक्तवत् । आदौ तु परिवाराणां वक्ष्ये वृषभलक्षणम् ॥ ३५ ॥ तुङ्गे पञ्चदशांशे तु एकांशं चागुलं भवेत् । चत्वारिंशागुलायाम गलात्पृष्ठावसानकम् ॥ ३६॥ मूर्धादिगलपर्यन्तं वर्णमात्रमुदाहृतम् ।। तस्माद्वीवोच्चमष्टांशं पूर्वोक्तं षोडशाङ्गुलम् ॥ ३७ ॥ ऊरुदीर्घ चतु:स्थानः षण्मानं परिकीर्तितम् । जानुमानं द्विमानं स्याज्जङ्घामानं षडङ्गुलम् ॥ ३८ ॥ खुरमानं द्विमानं स्यात्तुङ्गमेवं प्रकल्पयेत् । शृङ्गान्तरं तु वस्वंशं शृंङ्गोच्चं चतुरंशकम् ॥ ३९ ॥ शृङ्ग-मूलविशालं तु चतुरहुलमुच्यते । अर्धाङ्गुलं तदर्धायु व्यासमूलात्कृशं क्रमात् ॥ ४०॥ किंचिद्वक्रसमायुक्तो शृङ्गमभ्यन्तरे बुधः । लालाटवा(न्या)सनन्दाशं मुखव्यासं शराङ्गुलम् ॥ ४१ ॥ घनं च तत्समाख्यातं नेत्रमेकाङ्गुलं भवेत् । नेत्रमध्यललाटोचं वेदमात्रमुहृतम् ॥ ४२ ॥ नेत्रात्कर्णान्तपर्यन्तंपञ्चाशं कर्णदीर्घकम् । कर्णमूलविशालं तु द्विमात्रमिति विद्यते ॥ ४३ ॥ मध्यवा(व्यासं)चतुर्मात्रमग्रमङ्गुलविस्तृतम् । घनमोगुलं ख्यातं घ्राणं सार्थोडलायतम् ॥ ४४॥ व्यासमेकागुलं ख्यातं गादं तत्सममुच्यते । अगुलं नासिकादूचं तुङ्गमित्यभिधीयते ॥ ४५ ॥ भास्यं पञ्चाङ्गुलायाममधरोष्ठं दयाङ्गुलम् । त्रिमात्रं चोत्तरोष्ठं च युक्तितः कल्पयेत्क्रमात् ॥ ४६ ॥