________________
काश्यपशिल्पे पट्चतुश्चत्वारिंशः पटलः । १३५ वरुणद्विपयश्चैव वायुरुद्रस्तथैव च ।.. सोमश्च क्षेत्रपालश्च ईशद्भारसभास्करः ॥ १७ ॥ मूलगेहं समीक्ष्यास्ते स्थापयेत्तु प्रदक्षिणम् ।। . कर्णकांशगतान्देवान्भाग्देशे पश्चिमाननान् ॥ १८ ॥ पश्चिमे सौम्यप्रागग्रो कल्पयेत्कल्पवित्तमः । षोडशं होवमाख्यातं द्वात्रिंशदधुनोच्यते ।। १९ ॥ चतुर्थ सालबीज तु नन्दनन्दविभाजिते । बाह्य तु चतुरष्टांशे पूर्वादिक्रमयोगतः ॥ २० ॥ अनकार्यभवश्चैव मोटिसूक्ष्मं तथैव च । गौरीशसर्वस्तथाभासाह्याशिरोत्तमाभूस्तथा ॥ २१ ॥ ईशानः कौशिकश्चैव एकाक्षोऽविघ्नं एव च । सरस्वती तथा लक्ष्मीरेकरुद्रस्थैव च ॥ २२ ॥ पशुपतिर्वसुश्चैव महादेवास्त्रिमूर्ति च । धनदो रुद्रकालागी श्रीकल्ठो नागदेवता ॥ २३ ॥ हिमं च पृथिवी चैव शिखण्डि मरुतस्तथा । अत्रिः शनैश्वरश्चैव द्वात्रिंशत्परिवारकाः ॥ २४ ॥ अथाऽऽस पृथिवीस्थाने गौरीस्थापनमाचरेत । गौरीस्थाने न्यसेत्पृथ्वीं शेषं पूर्ववदाचरेत् ॥ २५ ॥ अभ्यन्तराननान्सर्वान्स्थापयेत्तु विशेषतः ।। गौर्यास्तु वनमालाऽथ विमानं वाऽथ कल्पयेत् ॥ २६ ॥ अन्येषामपि देवानां विमानं वाऽथ मण्डपम् । मूलहयंत्रिपादं वा अर्ध वा पादमेव वा ।। २७ ॥ गर्भगेहसमं वाऽपि गर्भाध वा त्रिपादकम् । त्रिचतुष्पश्चहस्तं वा परिवारालयं भवेत् ॥ २८ ॥ आभाससदने तेन मानव समाचरेत् । शक्तिकादिषु यन्मूलं गेहमेवं तथैव हि ॥ २९ ॥ कारतेत्वनितत्र ( येत्सदन र ) म्यं विपरीतं विपत्करम् । प्रिवर्गमण्डपाकारं चतुरासमन्वितम् ॥ ३० ॥ . उक्षावासं प्रकर्तव्यं शेषाणां तु यथोचितम् । परिवारालयं प्रोक्तं प्रतिमालक्षणं शृणु ।। ३१ ।।