________________
काश्यपशिल्पे षट्चत्वारिंशः पटलः । अन्तर्मण्डलगेः सर्वैः परिवार ने कल्पयेत् । । संकल्पान्तं चारधारा परिवाराष्टकं द्विज ॥ २ ॥ कलाऽस्य परिवारास्तु ममाहारे प्रकल्पयेत् । प्राकारे तु चतुर्थी तु द्वात्रिंशत्परिवारकम् ॥ ३॥ तत्तत्प्राकारमध्ये वा सालकुड्याश्रितं तु वा । मुखायामं विना बीजं चतुरश्रे कृते सतिं ॥ ४ ॥ नवांशं विभजेद्धीजमर्धाशे मूलहर्यकम् । तथा दृष्टार्धभागेषु पूर्वादिक्रमयोगतः ॥ ५॥ प्राध्यां वै वृषभं स्थाप्य अतलं त्वनिगोचरे । अग्निदुग्धा [तु] वायव्ये सप्तमातरमातृणाम् ॥ ६ ॥ दक्षिणे वीरभद्रं वा वामेऽ(विघ्न)विनायकं तथा । एक.(कु)वेरं तु वायव्ये नैऋत्यां विघ्नविनायकम् ॥ ७ ॥ कुमारं वारुणे देशे ज्येष्ठे वै वायुगोचरे। . सौम्ये तु केशवस्थानं तत्र कात्यायनी तु वा ॥ ८ ॥ भास्करं स्मकरें देशे ते पीठं प्रतिमं तु वा । प्रतिमा त्वालयोपेता पीठं चंदालयं विना ॥ ९॥ इन्द्रानलशिवांशस्थाः पश्चिमात्रि(दि)मुखस्थिताः ।। धृतिर्वारुणवायुश्च सर्वाश्च प्रामुखस्थिताः ॥ १० ॥ विष्णुश्चेत्प्रमुखः सौम्ये दुर्गा चेदक्षिणानता(ना) । मातरः सौम्यवक्त्रास्तु विदेशः पश्चिमाननः ॥ ११ ॥ मातृवामस्थविघ्नेशः माच्यामाननमुच्यते ।
आदौ वा द्वित्रिसाल चा अंशे चण्डेश्वरालयम् ।। १२ ।। त्रिदण्डे बलिपीठाग्रे वृषस्थानं परं भवेत् । अपरध्वजदण्डेन तयोर्मध्येऽष्टभाजिते ॥ १३ ॥ नवधा स्यात्पुरस्थानं गोपुरद्वारनिगतिः । मण्डपाद्वाऽथ तन्नीव्र वृत्तपीठान्तरं भवेत् ॥ १४ ॥ परिवाराष्टम(क)ह्येवं षोडशं त्वधुना शृणु। वीजे तु पञ्चपञ्चांशे शक्रेभागादिषु क्रमात् ।। १५ ।। इन्द्रश्चाश्वासरोहिंश्च पितरश्चाधमस्तथा । रोहिणी नितिश्चैव अप्सरोगण एव च ।। १६ ।।