________________
काश्यपशिल्पे षट्चत्वारिंशः पटलः ।
१३३ सभिभद्रसमायुक्तं मध्ये वारणसंयुतम् । नानामसूरकस्तम्भवेदिकायैरलंकृतम् ॥ १३४ ॥ सभाकारं शिरो वाऽपि शालाकारमथापि वा । मुले मुखे महानासी पार्थयोििद्वनासिका(के) ॥ १३५॥ अन्तः पादोत्तरैर्युक्तं प्रस्तरे तु तलं प्रति । अन्तःस्यो(सो)पानसंयुक्तं मध्ये वारणसंयुतम् ॥ १३६ ।। एवं विधा समुदिष्टं द्वारगोपुरमध्यमम् ।। अलिन्द्रोशं च कुडचं वा वृषभस्त(स्थ)लमेव वा ॥ १३७॥ तुल्यायैः प्रस्तरं वाऽथ अलिन्द्राङ्ग यथोचितम् । शालाकारं सभाकारं मालिकाकारमेव च ।। १३८ ॥ यद्यदिष्टं तु यहारे तत्तत्रैव प्रकल्पयेत् । बाझे वाऽधि या(पादाभ्यां मध्यकुडयमुतं तु वा ॥१३९ ।। गृहपिण्डी गर्भगेहं प्रागिव प्रकल्पयेत् । अलिन्द्रं हारयोर्माने विकृताधिकमेव वा ॥ १४० ।। प्रस्तरेदिष्टभूम्यन्तं गोपानादिसमन्वितम् । कूटकोष्ठाचलंकारमूर्ध्वस्तमत्म(म्भान्म)कल्पयेत् ।। १४१ ॥ भूमिभागमलंकारं गलान्तं परिकल्पयेत् । शीर्ष दण्डाशं शालाभं शालाकारं तदुच्यते ॥ १४२ ।। लुपारोप्य तमायत्तं सभाकारकमुच्यते ।। प्रस्तरं प्रतिसंछाध मण्डपं यत्रिविष्टिना ॥ १४३ ॥ पालिकाकृतिकं ख्यातं मण्डपे तु परस्परम् ।
गोपुरं बेवमाख्यातं परिवारविषिं शृणु ॥ १४४ ॥ इतिकाश्यपशिल्पे गोपुरलक्षणं पश्चचत्वारिंशः पटलः समाप्तः ।
अप षट्चत्वारिंशः पटलः ।
॥ परिवारः॥
अथ वक्ष्ये विश्शेषेण परिवारविधि परम् । अष्टौ च पोडशं चे(श त्ये)। द्वात्रिंशच यथाक्रमम् ॥ १ ॥