________________
१३२
काश्यपशिल्पे पञ्चचत्वारिंशः पटलः ।
अन्तः पादोत्तरैर्युक्तं मन्धाय्यापै (मण्डपाद्यै) रलंकृतम् । द्वारे द्वाराङ्गसंयुक्तं द्वारं तद्भद्रसंयुतम् ॥ ११९ ॥ पूर्वेऽपरे च शालायाः सभद्रं भद्रनासिका । नानामहूरकं स्तम्भवेदिका जालतोरणम् ॥ १२० ॥ अन्तः पादोत्तरैर्युक्तं मध्यवा (तो) रणसंयुतम् । पार्श्वयोर्दण्डवत्रा (का)ढ्यं क्षुद्रनास्य (सी) विभूषितम् ॥ १२१ ॥ शालाकारं शिरोपेतं जालकादिविभूषितम् । केशाविशालालंकारं भूमिभागे च पूर्ववत् ॥ १२२ ॥ पार्श्वयोश्च मुखे पृष्ठे महानासीचतुष्टयम् । अयुग्मस्तूपि संयुक्तं द्वारप्रासाद कुड्यकम् ॥ १२३ ॥ वक्ष्येऽहं तारं(द्वार) हर्म्यस्य लक्षणं द्विजसत्तम । प्रागुक्तवत्प्रकर्तव्यं भूमिभागे द्विजोत्तम ॥ १२४ ॥ सभाशिरस्य संयुक्तं स्वस्तिकाकृतिनासिकम् । पादोत्तरैर्युतं युग्मं . . स्तूपिनाऽन्वितम् ॥ १२५ ॥ कूटं शिखरनासाढ्यमयुग्मस्तूपिनासिकम् । कूटादिभूमिभागं च प्रागिवैव प्रकल्पयेत् ।। १२६ ॥ अपरे (रे च) परे नासि (स्यौ ) सतारे व्यंशनीब्रकम् । शालाकार्य (रं) शिरः कार्यं यश्वं ( वस्त्रस्त्रं) स्तूपिकान्वितम् ॥ १२७॥ शालानिष्क्रान्तसंयुक्तं नानालंकारसंयुतम् | नानाधिष्ठान चरणैर्युक्तं तत्सोपपीठकम् ॥ १२८ ॥ द्वारहर्म्यं त्रिधा प्रोक्तं शृणु गोपुरलक्षणम् । चतुर्दिग्भद्रसंयुक्तमन्तः पादोचरैर्युतम् ॥ १२९ ॥ शालाकारशिरोयुक्तं भद्रनासी मुखे मुखे ।
..........
पार्श्वयोश्च महानासि (स्यौ ) पादं प्रत्यल्पनासिका ॥ १३० ॥ मात्रादण्डमिति ख्यातं श्रीविशालमथो शृणु ।
पूर्ववद्धूभिभागं च तलात्तुङ्ग करी (क्रमात्कृश) कृतम् ॥ १३१ ॥ सभाकारं शिरो वाऽपि शालाकारमथापिवा । नानामसूरकस्तम्भवेदिकाद्यैरलंकृतम् ॥ १३२ ॥
चतुर्दिक्षु महानासि विदिक्षु क्षुद्रनासिकम् । चतुर्मुखं ततो वक्ष्ये भूमिभागादिपूर्वकम् ॥ १३३ ॥