________________
काश्यपशिल्पे पञ्चचत्वारिंशः पटलः । १३१ एवं सप्तनलं ख्यातमलंकारम(स्त्व)थोच्यते । मण्डपाभां यथा द्वारशोभा कुर्याद्विजोत्तमः ॥ १०४ ।। मण्डं वा द्वारशाला स्यात्प्रासादं सदनाकृति । मालिकाकृति कर्तव्यं द्वारहयं द्विजोत्तम ॥ १०५ ॥ शालाकारं प्रकर्तव्यं द्वारं गोपुरमेव वा । सर्व तु गोपुरान्त वा वल्पयेत्कल्पवित्तमः ॥ १०६ ॥ तेष्वादो द्वारशोभां तु वक्ष्येऽहं द्विजसत्तम । एकद्वित्रितलं वाऽपि सर्वालंकारसंयुतम् ।। १०७॥ मुखे मुखे महानन्दपार्श्वयोर्वेशनासिका । स्वस्त्याकृत्यल्पनासाढचं प्रागुक्तविधिना द्विज ॥ १०८ ॥ युक्तस्तूपिसमायुक्तं लपरोहशिरस्तु वा । मण्डपाकृतिक वाऽपि श्रीकान्तं तदुदाहृतम् ।। १०९ ॥ शालाकारशिरस्तस्मिन्पष्णासि(ण्णास्यो)मुखपृष्ठयोः । पार्थयोर्वशनासाढ्यं युक्तस्तूपीव संयुतम् ।। १५० ।। अन्तः पादोत्तरेर्युक्तमिति कान्तमिदं परम् । मुखे मुख च पण्णासि पाश्वंयोविश(व)शनासिका ॥ १११ ।। सहा(मा)कारं शिरस्कन्धं कान्तं विजयमेव हि । एवं त्रिविधनियां तु द्वार शोभा प्रकल्पयेत् ।। ११२ ।। मुखे मुखे महानासी पार्श्वयोश्च तथैव च । अधेकोटिचतस्राढा पञ्जरं च तदाकृति ।। ११३ ॥ शालाकारं शिरोपेतमयुगस्तूपिसंयुपम् ।। विशयं विशालमेतद्धि विशालाल यमुच्यते ॥ ११४ ।। अर्धकोटिसहस्साङ्ग पार्श्वयोर्भद्रनासिका। . पार्श्वयोशनास्यङ्गमयुग्मस्तूपिकान्वितम् ।। ११५ ॥ पादं प्रत्यल्पनासाढ्यं सर्वावयनसंयुतम् ।। विप्रतीकान्त(न्ता)लंकारं वक्ष्यते तु विशेषतः ।। ११६ ॥ पूर्ववद्भूमि भागं च चतुदीम(दिग्भ)द्रसंयुतम् । महानासीचतसा(तुष्का)न्यं शिरोभद्रसमन्वितम् ।। ११७ ।। अन्तः पादोत्तरैर्युक्तमयुग्मस्तूपिकान्वितम् । . त्रिविधा द्वाद (र)शाला स्याद्वारप्रासादमुच्यते ॥ ११८ ॥