________________
१३०
काश्यपशिल्पे पञ्चचत्वारिंशः पटलः
त्रितलं ह्येवमाख्यातं चतुर्भूममथोच्यते । उत्तरादिशिखांशं (न्तं) तु द्विनत्रांशविभाजिते ॥ ८९ ॥ पादोनद्वयंशं मञ्चीचं गुणांश चरणोदयम् । तदर्थं प्रस्तरोत्सेधं सार्धद्वयंशाधिकोदयम् ॥ ९० ॥ तदर्थं प्रस्तरोत्सेधं युग्ममंशाधितुङ्गकम् । तदर्धं मञ्चमानं स्यात्साधशिं गलमानकम् ॥ ९१ ॥ सार्घद्वयंशं शिरोत्सेधं शिखामानं शिवांशकम् । चतुर्भूमि(मं) समाख्यातं पञ्चभूमि (म) मथो शृणु ॥ ९२ ॥ शिखाग्रादुत्तरान्तं तु त्रयोविंशतिभाजिते । द्विभागं प्रस्तरोत्सेधं सार्थद्वयंशाधितुङ्गकम् ॥ ९३ ॥ तदर्थं मञ्चमानं स्वात्पादायामं गुणांशकम् । तस्यार्धं प्रस्तरोत्सेधं सार्घद्वयंशाङ्घ्रितुङ्गकम् ॥ ९४ ॥ तदर्धे मञ्चमानं तु द्विभागं चरणोदयम् । प्रस्तरोचं शिवांशन कंधरोच्चं तथैव च ॥ ९५ ॥ सार्धद्वयंशं शिरोत्तुङ्गमेकांशं स्तूपमानकम् ।
पञ्चभूमि (मं) समाख्यातं पड्भूमिं (मं) त्वधुना शृणु । ९६ ॥ उत्तरादिशिखान्तं च एकोनत्रिंशदंशके । द्विभागं प्रस्तरोत्सेवं पादोच्चं चतुरंशकम् ॥ ९७ ॥ सत्रिपादशिवांशं तु भूमिं (भूमि) सामाख्य (न्य)मीरितम् । साधग्न्यंशाङ्घ्रितुङ्गं तु तदर्थं प्रस्तरोदयम् ॥ ९८ ॥ शिवांशं तु शिखामानं घट्तलं त्वधुनो (सप्तभूममथो ) च्यते । उत्तरादिशिखांशं (न्तं) तु मानं पट्त्रिंशदंशके ।। ९९ ।। पादद्विभागं मञ्चोच्चं सार्ववेदांशमङ्घ्रिकम् । द्विभागं प्रस्तरोत्सेधं वेदांशं चरणोदयम् ॥ १०० ॥ पादोनद्वयंशं मञ्चं स्यात्सार्थाग्न्यिंशाङ्घ्रिमानकम् । पादोनद्वयंशं मञ्चोच्चं गुणांशं पादमानकम् ॥ १०१ ॥ तदर्थं प्रस्तरोत्सेधं सार्घेपक्षाङ्घ्रितुङ्गकम् । तदर्थं मचमानं तु द्विभागं चरिता (रणा ) गतम् ॥ १०२ ॥
प्रस्तरं शशिभागेन शिवांशं गलमानकम् पादहीनाग्निभागं तु शिरःशेषं शिखोदयम् ॥ १०३ ॥