________________
काश्यपशिल्पे पञ्चचत्वारिंशः पटलः। १२९ अलिन्द्रं वा विनाऽलिन्द्रं कल्पयेत्कल्पवित्तमः ।। ७४ ॥ विनाऽलिन्द्रकृतं चेत्तु कुड्यगर्भगृहं तु वा । आलिन्द्रांशं तु संयोज्य कारयेत्तु द्विजोत्तमः ।। ७५ ।। आदिभूम्येवमाख्यातमूर्च घट्तलवद्भवेत् । सप्तभूमि समाख्यातं तेषां गण्यमथोच्यते ॥ ७६ ॥ पादाधिष्ठान योस्तुङ्ग मूलप्रासादमूलकम् । चतुष्पञ्चषडंशं वा सप्ताष्टनव एव वा ॥ ७७ ॥ दशैकादशभागं वा कृत्वैकांशोपपीठकम्। अथवा हस्तमानेन द्वारं मांन(रमानं) यथोचितम् ॥ ८ ॥ तदुचं तु चतुष्पश्चषट्सप्ताष्टौ तु वा भवेत् । नवरुद्रांशभागं वा कृत्वैकांशं विशेषतः ॥ ७९ ।। उपपीठोन्नत ख्यातं शेषं तु गुणभाजिते । अधिष्ठानं तदेकांशं द्विभागं चरणायतम् ।। ८०॥ होमादुत्तरसीमान्तं द्वारमानं विधीयते ।। पादबन्धमधिष्ठानं द्वारशोभादिना कुरु ॥ ८१ ॥ स्तूप्यन्तमुत्तरान्तं च रसभागविभाजिते । मस्तरोचं सपादांशं शश्यंशं गलमानकम् ॥ ८२ ॥ पादोनगुणभागं तु शिरःशेष शिखोदयम् । एवमेकतलं प्रोक्त द्वितलं शृणु सुव्रत ।। ८३ ॥ उत्तरादि शिखान्तं च नवभागविभाजिते । प्रस्तरं तु सपादांशं द्विभागं चरणोदयम् ॥ ८४ ।। मञ्चमानं शिवांशं स्यात्तत्समं कंधरोदयम् । शिखरं साधेपश्चांशं सपादांशं शिखोदयम् ॥ ८५॥ द्वितलं ह्येवमाख्यातं त्रितलं चाधुना शृणु ।। उत्तरस्तूपिपर्यन्तं भानुभागविभाजिते ॥ ८६ ॥ सपादं प्रस्तरोत्सेधं सार्धद्वयंशाधिकोदयम् । मस्तरं शशिभागेन द्विभागं चरणोदयम् ॥ ८७ ॥ मञ्चमानं शिवांशं स्यादशं ग्रीवोदयं भवेत् । पक्षांशं शिखरं झेयमेकांशं स्तूपिमानकम् ।। ८८ ॥