________________
१२६
काश्यपशिल्पे पञ्चचत्वारिंशः पटलः । विस्तारं सप्तधा भज्य शोभच्छे (भोच्चं) रुद्रभागया। ताराध्यादिक(र्धाधिक)तुङ्गं तु द्वारशालोच्छ भवेत् ॥ ३१ ॥ सप्तभागे तु रुद्रांशं मान्वंशं वा तृतीयके । विस्तारे तु नवांशे तु मध्यमं शो(स्या)चतुर्थके ॥ ३२ ॥ विस्तारजीवनोत्सेधे महागोपुरमुच्यते । होमादिस्तपिपर्यन्तं मात्तो(नो)च्चं तु प्रकीर्तितम् ॥ ३३ ।। विस्तारायामयोर्मानं सूत्रं प्राग्वाह्यमुच्यते । तद्वाह्ये कूटकोष्ठादिनी प्रासादच(व)द्भवेत् ॥ ३४ ॥ विस्तारस्य विभागैकं चतुर्भागेकमेव वा । पश्चभागे त्रिभागे वा प्राग्बाह्ये तु निसर्गतः ।। ३५ ॥ सार्थहस्तं समारभ्य षट्पडङ्गुलबर्धनात् । पञ्चहस्तावधिर्यावत्क्षुद्राणां द्वारविस्तृतम् ।। ३६ ।। आल्पानां च तथा प्रोक्तं सनराणां ततः शृणु । त्रिहस्तं तु समारभ्य यावत्सप्तकरावधि ॥ १७ ॥ षडग्लिविवृध्या तु द्वारव्यासं प्रकीर्तितम् । चतुर्हस्तं समारभ्य .... पञ्चदश याकरान्तकम् ॥ ३ ॥ रसमात्रीवरद्धया तु महते द्वारविस्ततम् । तारे सप्तांशविंशांशं सप्ताशे तु दशांशकम् ।। ३९ ।। अत्यर्थ (ध) पादहीनं तु द्विगुणं द्विगुणोन्नतम् । सार्धपादं तु पादं वा द्वारोत्सेधं तु सप्तथा ॥४०॥ लिङ्गस्य मध्यमद्वारं मध्यमं तु वदाम्यहम् । शक्तेश्च भूतयोमध्ये नवांशकविशेषतः ।। ४१ ॥ लिङ्गमध्यं तु रामे तु द्वारमध्यं प्रयोजयेत् । शोभादिगोपुरान्तानां द्वारमध्यं क्रमोदितम् ॥ ४२ ॥ तन्मध्ये गोपुरायामं स्तम्भयोः पाश्वयोः समम् । द्वारयोगकवाटं च द्वारलक्षणवत्कुरु ॥४३॥ गुणपङ्क्ति समारभ्य यावदेकोनविंशतिः। तावत्पत्तिस्तु विस्तारेष्वेवमेवं प्रकल्पयेत् ॥ ४४ ॥ यावद्धिन्द्रकृतिय॑स्तास्तावदेवाथ पङ्क्तयः । विस्तारे पञ्चभागे तु गुशिं गर्भगेहकम् ॥ ४ ॥