________________
काश्यपशिल्पे पञ्चचत्वारिंशः पटलः ।
१२७ शेषं कुड्यविशालं स्यादेकभूमौ द्विजोत्तम । परितः कुड्यविस्तारं मानेनैव प्रकल्पयेत् ॥ ४६॥ एवमेकतलं ख्यातं द्वितलं तु तथोच्यते । विस्तारे पञ्चभागं स्यादायामेऽपि तथैव च ॥ ४७ ।। दशांशं गर्भगेहं तु साशं कुडयविस्तृतम् । कर्णकूटं तु भे(मी)नांशं शालादीर्घ विशालकम् ।। ४८ ॥ हारान्तरं तदंशेन विस्तारे त्वेवमेव च । शालादीर्घ तु पञ्चांशमायामे तु प्रकल्पयेत् ॥ ४९॥ हारान्तरं तु कूटं च एकेकांशेन कल्पयेत् । कूटान्तरसमायाम शेषं हारान्तरेऽ(रा)न्वितम् ॥ ५० ॥ हारान्तरार्धमानेन भद्रं वा भद्रपञ्जरम् । द्वितलं ह्येवमाख्यातं त्रितलं त्वधुनोच्यते ॥ ५१ ॥ नवांशं विभजेद्वा(द्रयास)मायामं च तलं भवेत् । गर्भगेहं गुणांशं स्यादंशेन ग्रहपिण्डिका ॥ ५२ ।। अलिन्द्रं त्वेकभागेन हारव्यासं शिवांशकम् । कर्णकूटं शिवांशेन शालादीर्घ गुणांशकम् ॥ ५३ ॥ एकांशं पञ्जरं ख्यातमाशं हारयोत्तरम् । कल्पवा(लप्यव)मादिभूमिं च द्वितलं पूर्ववद्भवेत् ॥ ५४ ॥ अथवाऽन्यप्रकारेण त्रितलं शृणु सुव्रम् । द्वारभागं तु विस्तारं रुद्रांशं तु तदायतम् ॥ ५५ ॥ गुणांशं गर्भगेहं तु गृहपिण्ड्यंशमुच्यते । त्रितलं तत्समाख्यातं हारभागेन कल्पयेत् ॥ ५६ ॥ अलिन्द्रा । तु कुड्यं वा गर्भगेहान्वितं तु वा । आयामे पञ्चभागेन कोष्ठदीर्घ प्रकल्पयेत् ।। ५७ ॥ शेषं पूर्ववदुद्दिष्टं द्वितीयं द्वितलोक्तवत् । त्रितलं चैवमाख्यातं चतुर्भूमि(स्तल)पयोच्यते ॥ ५८ ॥ विस्तारे तु दशांशे तु तद्वदायामपयः । गर्भगेहत्रिभागं हि साशं कुडयविस्तृतम् ।। ५९ ।।