________________
१२४
काश्यपशिल्पे पञ्चचत्वारिंशः पटलः । द्वारशोभा द्वारशाला द्वारप्रासादहर्म्यकम् । द्वारगोपुरमित्येते क्रमानाना प्रकीर्तिताः ॥ २ ॥ एकद्वित्रितला वाऽपि द्वारशोभा प्रकल्पयेत् ।। द्विभूमिवर्वा त्रिभूमि, चतुर्भमिरथापि वा ॥३॥ द्वारशाला तु कर्तव्या साले स्यात्तु द्वितीयके । त्रिचतुष्पञ्चभूमिळ द्वारपासादमारभेत् ।। ४ ॥ चतुष्पश्चतलं वाऽथ षट्तलं वाऽथ हर्यकम् । पञ्चषट्सप्तभूमिवों द्वारगोपुरमिष्यते ॥ ५ ॥ अथवा सर्वसालेषु एकद्वित्रितलं तु वा । सोपपीठमधिष्ठानं... ... विनावान्नोपपीठकम् ॥ ६॥ तयोरुच्चयतः सर्वे नवपश्च वदाम्यहम् । मूलपासादविस्तारं सप्ताष्टनवभाजिते ॥ ७॥ दशैकादशभागे च एकांशरहितं क्रमात् । शोभादिगोपुरान्तानां विपुलं कीर्तितं क्रमात् ॥ ८ ॥ विकल्पाहा(भा)सहाणां गोपुराणां ततस्त्विमे । मूलालयविशालं तु चतुष्पश्चषडंशके ॥ ९॥ सप्ताष्टांशेन हीनं तु च्छन्दशोभोदयं भवेत् । मूलगेहत्रिभागैकं भागम(शमेव च ॥ १० ॥ त्रिद्वयंशं चतुरंशं तु गुणांशं च तथैव च ।। पश्चभागे तु वेदांशं सालेषु प्रथमादिषु ।। ११ ॥ शोभादिगोपुरान्तानां पतिर्जात्यायमा(जात्यायता)लयम् । कल्प्येवं हर्यमानं स्यादथ मानवशात्ततः ॥ १२ ॥ द्विहस्तादिद्विरष्टान्तमेकहस्तविवर्धनान् । शोभादिगोपुरान्तानां प्रत्येकं त्रिविमानकम् ॥ १३ ॥ विकल्पाभासयोरेव चन्द्रह च लक्ष्यते । गुणहस्तं समारभ्य सप्तदशकरावधि ॥ १४ ॥ एकहस्तद्वि(
विद्धया तु शोभादीनां त्रयं त्रयम् । चतुर्हस्तं समारभ्य यादवष्टादशं करम् ॥ १५ ॥ शोभादीनां क्रमाव्यासं जातिहर्ये विधीयते । प्रत्येकं त्रित्रिराकारनन्दपश्चावधिर्भवेत् ॥ १६ ॥