________________
१२३
काश्यपशिल्पे पञ्चचत्वारिंशः पटलः । सर्वालंकारसंयुक्तमष्टमं मण्डपं भवेत् । इष्टदिक्चारुरकु स्यात्कल्पयेत्परितो भवेत् ॥ ८७॥ एवं हि मनु भेदं च सायतं मण्डपं विदुः । त्रिचतुष्पञ्चषट्सप्त अङ्कणस्य तु एव बा ॥ ८८॥ सर्वेषां मण्डपानां च भित्तिव्यासं तु पञ्चधा। पादायामविशालेन दारुपादेन वा व्यथ(सम)म् ॥ ८९॥ सर्वेषां मुखभद्राणां करणं मण्डपाकृति । पाचे सोपानसंयुक्तं हस्तिहस्तविभूषितम् ॥ ९० ।। पञ्चषट्सप्तनवाष्टदण्डं वा तस्य विस्तृतम् । सपादं सार्थदण्डं वा हस्तिहस्तोदयान्वितम् ॥ ९१ ।। यष्टिनान कल्पं वा स्वश्रं हस्तिकहस्ति(स्त)कम् । तन्नीनं किपुररस्य अग्रं ककुन्ताकृति !! ९२ ॥ मूलादष्टांशरहितमग्रवा(म)स्तु क्रमात्कृशम् । हस्तिहस्त्यन्तरं विप्र युग्मं वाऽयुग्मद(य)ष्टयः ।। ९३ ।। दण्डं सपाददण्डं वा सार्ध वा द्वित्रिमात्रकम् । द्विदण्डं वाऽथ धीषुश्च विस्तारं स्यात्तदेव हि ।। ९४ ॥ नेन द्विगुणीनं तु अभयस्थानमण्डपे । यष्टरुच्चाग्निभागेकं भागं स्यादामलोदयम् ॥ ९५ ॥ आदौ समतले स्थित्वा सव्यपादपुरःसरम् । सोपानारोहणं विद्यान्मानां तु विधीयते ।। ९६ ।। मण्डपं ह्येवमाख्यातं गोपुरं शणु सुव्रत ।। ९७ ॥ इनि काश्यपशिलो मण्डपलक्षणं चतुश्चत्वारिंशः पटलः ।
अथ पञ्चचत्वारिंशः पटलः ।
गापुरलक्षणम् ।
अथ वक्ष्ये विशेषेण गोपुराणां तु लक्षणम् । . अन्तर्मण्डलसालादिन्यसुन(विपुलं)प्रोच्यते क्रमात् ॥ १ ॥