________________
काश्यपशिल्पे चतुश्चत्वारिंशः पटलः । सर्वालंकारसंयुक्तं मण्डपं तु त्रयोदशम् । षोडशाशे युगानं तु मध्ये कूटं द्विभागया ।। ७२ ॥ साष्टातिांथेसमायुक्तं द्विशतं पादमुच्यते ।। मुखभद्रसमांशेन तदर्थे(|)नेतरे दिशि ॥ ७३ ।। सर्वालंकारसंयुक्तो मण्डपः स्याच्चतुर्दशः । एवं हि मनुभेदेन युगानं मण्डपं विदुः ।। ७४ ।। इत ऊर्ध्वं चतुस्त्रिंशदंशं सीमावसानकम् । चतुरश्री मण्डपः स्यात्सर्वालंकारसंयुतः ॥ ७५ ॥ भित्तिस्तम्भं च परितः कर्तुरिच्छावशान्नयेत् । समाश्रमण्डपं त्वेतदायामाश्रमथोच्यते ।। ७६ ।। विस्तारं पडितल्येव सा(ल्यं स्यात्सा यतं वाऽथ पङ्क्तयः। विस्तारं पङ्क्तिमानं तु गुणाङ्गुलविवधनात् ॥ ७७।। सप्तविंशाङ्गुलं यावत्तावदायनवोदितम् । वर्धाक्षीणं तथा वाऽथ मण्डपे न(म)करोदितम् ।। ७८ ॥ नाश्रयेसु कर पूर्य(व)मण्डपं तु समाचरेत् । अशेषघटसंख्या तु प्राग्वदायासि(म)माचरेत् ।। ७९ ।। मण्डपे परितोऽष्टाशे द(इ)दिग्भद्रसंयुतम् ।। त्रिभक्तिविस्ततं चैव भक्तशा तन्मुखभद्रकम् ।। ८० ॥ सप्ताधिक्यद्वयाधिक्यं पादमित्यभिधीयते । सर्वालंकारसंयुक्तं पञ्चमं मण्डपं भवेत् ।। ८१ ॥ वसुभक्तिविशालं च दशभक्त्या तथाऽन्वितम् । द्विचतुर्भागविस्तारदीर्घमध्यस(म)होदयम् ।। ८२ ।। परितो मण्डपो ाशं मध्यस्तम्भविवर्जितम् ।। इन्द्रदिन्द्रमुखाभद्रा(ङ्मुखभद्रं च)चतुद्वयशेन सुव्रत ।। ८३ ।। षण्णवत्यधिसंयुक्तं सवालंकारसंयुतम् । षष्ठमं मण्डपं ह्येव प्रोच्यते तु शिवाईकम् ॥ ८४॥ नवभक्त्या तयालं तु रुद्रभक्त्या तयान्वितम् ।। एकत्रिभक्तिविस्तारं दीघेमध्ये सभा भवेत् ॥ ८५ ।। परितो देवभागं तु मण्डपं परिकल्पयेत् । त्रिचतुर्भागविस्तारं दीर्घस्यामुखभद्रकम् ॥ ८६॥