________________
काश्यपशिल्पे चतुश्चत्वारिंशः पटलः ।
१२१ लुपादोज़ हनं कुर्यादष्टाविंशाधिसंयुतम् । । पुरे पारयुतं चेत्तु चरणं चाष्टविंशतिः ॥ ५७ ।। अथवा पारहीनं तु त्रिरष्टचरणान्वितम् । पादं प्रत्यल्पनासादयं वेदिजालकतोरणम् ॥ ५८॥ नानाकुम्भलतायैस्तु कल्पितं प्रथमं भवेत् । चतुर्भित्तिविशालं तु आयामे तु षडंशकम् ॥ ५९॥ मण्डपं परितोऽशेन कूटपभ्यन्तरेतरम् । द्विभाक्तिविसृ(स्तृ)तं चैकभक्त्या तु मुखभद्रकम् ॥ ६ ॥ द्धानि(द्वात्रिं)शचरणोपेतं मण्डपस्य द्वितीयकम् । विशालं पञ्चभक्तथा स्यादायामे सक्तभग(भक्त)यः ॥ ६१ ॥ त्रिपञ्चपत्ति(ङ्क्ति)विस्तारं दीर्घा मध्ये सभा भवेत् । मण्डपं परितोऽशे तु इष्टदिग्भद्रसंयुतम् ॥ ६२ ॥ चत्वारिंशतिपादाढ्यं सालंकारसंयुतम् ।। वैदिकायैः समायुक्तं तृतीयं मण्डपं भवेत् ॥ ६३ ॥ रसभक्तिविशालं तु वसुभक्तचायतं भवेत् । । द्विचतुभक्तिविस्तारं दीघेमध्ये महोदयम् ॥६४॥ मण्डपं परितोऽष्टांशमिष्टदीर्घकभद्रकम् । षष्टिसंख्याधिसंयुक्तं चतुर्थ मण्डपं भवेत् ।। ६५॥ तारे सप्तविभागे तु नवभक्तघायु(य)तान्वितम् । त्रिभक्तिविस्तृतं पञ्चभक्त्यायामसमं करम् ॥ ६६ ॥ तारत्रयोदशांशेन मध्यंश(ध्यांशां)शेन कूटकम् । इष्टदिक्कुडयसंयुक्तं चतुर्दिग्भद्रसंयुतम् ।। ६७ ॥ प्रमुखे नन्दभागेन मुखभद्रं प्रकल्पयेत् । सदयं नवतीभक्तथा भक्तचाऽधिव(क)समन्वितम् ।। ६८ ॥ सोलंकारसंयुक्तं द्वादशं मण्डपं भवेत् । त्रिपञ्चपङ्किविस्तारमायामं चतुरश्रकम् ॥ ६९ ॥ मध्ये कूटं गुणांशेन श्वेने ऊर्ध्वसमन्वितम् । गुणांशं विस्तृतायामं मुखभद्रसमन्वितम् ।। ७० ॥ इदिक्कुडयसंयुक्त अन्य(माय)ताधिसमन्वितम् । पञ्चाशं त्रिदयातिथ्या द्विशतं चरणायतम् ।। ७१ ।।