________________
१२०
काश्यपशिल्पे चतुश्चत्वारिंशः पटलः ।
द्वात्रिंशदव (प) नासादयं चतुर्दिग्भद्रसंयुतम् । त्रिभागैकांशविस्तारं निर्गमं मुखभद्रकम् || ४२ || मध्यरङ्गसमोपेतं द्विष्ट (तमिष्ट) कुख्यसंयुत (समन्वितम् । सर्वालंकारसंयुक्तं पञ्चमं परिकीर्तितम् ॥ ४३ ॥ युगाश्रमष्टभक्त्या तु अशीतिचरणान्वितम् । चतुर्भागेन तन्मध्ये ऊर्धकूटं प्रकल्पयेत् ॥ ४४ ॥ चतुर्दिग्द्वारसंयुक्तमिष्टदिक्चा ( | )रमेव वा । मुख सोषा (पा) नमन्यंशैर्वासनीत्रसमन्वितम् ॥ ४५ ॥ मध्यरङ्गसमायुक्तं षडष्टनासिकान्वितम् । सर्वालंकारसंयुक्तं सप्तनं मण्डपं भवेत् ॥ ४६ ॥ चतुरश्रं दशांशं तुभाद्वादि (विधि) कशाङ्घ्रिकम् । मध्ये चैवाष्टदिग्भागवकूटसमायुतम् ॥ ४७ ॥ कूटोपरि नीव्रतांशे तु अ (त्व) न्तरालं प्रकल्पयेत् । पार्श्वान्मुखेन सोपानं दिशि भद्रसमन्वितम् ॥ ४८ ॥ सर्वालंकारसंयुक्तमष्टमं मण्डपं भवेत् ।
रुद्रभक्त्या युगात्रं तु मध्ये द्वयंशेन कूटकम् ।। ४९ ।। मुखे सोपानसंयुक्तमिष्टदिग्भद्रसंयुतम् । द्वारन्य (म)त्रैव कुड्यांशमिष्टभागावसानकम् || १.० ॥ सर्वालंकारसंयुक्तं नवमं मण्डपं भवेत् ।
:
द्वादशशि युगात्रं तु मध्ये द्वयंशेन कूटकम् ॥ ५१ ॥ मण्डपस्य तु बाह्ये तु अंशेनालिन्द्रमिष्यते तद्विशेन तु विस्तारनिष्क्रान्तः स्याच्चतुर्दशी ।। ५२ ।। साष्टषष्टिसमं पादमाय तु प्रकल्पयेत् । सर्वालंकारसंयुक्तं दशमं मण्डपं भवेत् ॥ ५३ ॥
पेतमण्डपस्य तदायतम् |
तस्योचितविभागं तु कृत्वा वा मण्डलं कुरु . ५४ ॥ पङ्कित्रयविशालं तु पञ्चपङ्क्तया विशालकम् । एकपार्श्वे पुरे वाऽथ पा (ना)रमेशेन कल्पयेत् ॥ ५५ ॥ पार्श्वे पा ( द्वा) रयुतं द्वे तु त्रिंशदङ्घ्रिसमन्वितम् । तदेव परितोंऽशेन मण्डपाभ्यन्तरे रसः ॥ ५६॥