________________
काश्यपशिल्पे चतुश्चत्वारिंशः पटलः । धरातलसमं प्रोक्तं द्विगुणं त्रिगुणं तु चा । उपपीठोदयं ख्यातमुपपीठार्थय(र्धव)त्तु वा ॥ २७ ॥ उपपीठमधिष्ठानं चरणं प्रस्तरं तथा । नीव्रवेशमलंकारं गुप्यं प्रागिव विद्यते ।। २८ ।। पक्तित्रयसमायुक्तं षोडशस्तम्भसंयुतम् । बलाल्पनासिकोपेतं मध्ये कूटं तु एव वा ।। २९ ॥ मण्डितं बाऽथ सर्वत्र चतुरि इति.(युत)तु वा । अष्टिदिग्वाटिदिग्द्वा)रमेकं वा द्वयं वा जालकोष्ठदिक् ॥ ३० ॥ बाह्य सोपानसंयुक्तं चित्रितं तोरणादिभिः। तोरणादिविहीनं वा कल्पैवं प्रथमं भवेत् ॥ ३१ ॥ चतुर्भक्त्या विशालं तु अष्टदिग्द्वारसंयुतम् । पूर्वेऽपरेवापर)द्विपत्ये(ऋत्ये)कभक्त्या विस्तारनीत्रकम् ।। ३२|| मध्यस्थाघ्रिं परित्यज्य ऊर्चे कूटं द्विभाक्तिकम् । घसुपञ्जरसंयुक्तं द्वितीयं मण्डपं भवेत् ॥ ३३ ॥ पञ्चभक्त्या विभा(शालं)तु मध्ये कूटं द्विभागया। मण्डपं परितोंऽशोनद्वात्रिंशच्चरणान्वितम् ।। ३४।। भानुद्विगुणसंराष्ट्रं पञ्जराष्टकसंयुतम् ।। इष्टदिग्द्वारसंयुक्तं द्वारन्य(म)त्रककुड्यकम् ।। ३५ ॥ द्वारस्थाने तु सोपानं सर्वालंकारसंयुतम् । कुडथ कुम्भलतास्तु भूषितं तु तृतीयकम् ॥ ३६ ॥ चतुरश्रं तु षड्भक्त्या मध्ये कूटं विभागया । तस्कूटमष्टपादाढय मध्ये रङ्ग-समायुनम् ॥ ३७ ।। चतुद्वारसमायुक्तमिष्टदिग्द्वारमेव वा ।। विभत्त्याऽपि हृतं चैव भक्त्यादिप्रथमायुतम् ॥ ३८ ॥ अष्टदिग्मद्रसंयुक्तं चतुर्दिग्भद्रमेव वा । चत्वारिंशतिचाष्ट्र घ्रियुक्तं वा तत्र यादितम् ॥ ३९ ॥ चतुर्षिशाल्पनासाढयं कुडयकुम्भलतादिकान्वित)। तोरणाष्टकसंयुक्तं तृतीयं मण्डप स्विदम् ॥ ४०॥ चतुरश्रं तु सप्तांशं षष्ठयधिकसमायुतम् । नवभागेन तन्मध्ये कूटं वा मण्डिनाङ्गणम् ॥ ४१ ॥