________________
काश्यपशिल्पे त्रिचत्वारिंशः पटलः । प्रधानद्वारमेकं वा द्वयं वाऽन्यत्तु जालकम् । प्राकारमेवमाख्यातं बाह्ये विधिविधीयते ॥ ७॥ एकद्वित्रिचतुष्पश्चदण्डवाहादिविस्तृतम् । तब्दाह्ये तु त्रयश्रेणिमनेन विधिना कुरु ।। ७९ ॥ शैवानां परिवाराणा प्राच्यमावासमुच्यते । प्राच्यां चा सौम्यदेशे वा देशिकावासमुच्यते ॥ ८० ॥ देवज्ञाम्बष्ठभिषजा वासस्थानं च याम्यके। निबन्धाहारजीवानां पश्चिमे वासमुच्यते ॥ ८१ ॥ सर्वेषामपि भक्तानां वास मुत्तरपावके । अग्नौ महाव्रतस्थान याम्ये पाशुपतालयम् ॥ ८२ ॥ फलामुखं तु नैऋत्ये चौचालयं तु वारुणे । वायौ तु आहेतस्थाने सौम्ये भूसुरसत्रकम् ॥ ८३ ।। ज्ञानाभ्यासादधः कुर्याद्वैश्यानां तु विशेषतः । तद्वाह्ये स्त्रीशदिग्भागे कार्य महाजलाशयम् ।। ८४ ॥ याम्यपाबंकयोमध्ये गोशालांशं प्रकल्पयेत् । वारुणीनैनीमध्ये सूतिकावासमुच्यते ॥ ८५ ॥ वारुणानिलयोर्मध्ये रोगार्तानां निवासकम् । सौम्यवानिल(यव्य)योर्मध्ये बालशिक्षार्थमण्डपम् ।। ८६ ॥ सोमशंकरयोर्मध्ये धान्यमञ्जलिका भवेत् । । तद्वाह्ये बलिते विष दासीनां गणिकादिनाम् ।। ८७ ॥ नत्तगेयाभ्यसाना (सतां) तु क्रयविक्रयजीविनाम् । चकिना (चक्रिणां) वापकानांच कुलालानां तथैव च ॥ ८८ ॥ मत्स्यमांसोपजीवानां न तु (नत)कारकयोष्ठना(पिता) । पिताश्मशूद्रकानां तु गोपालानां च कारुणाम् ।। ८९ ।। करणानां गृहश्रेणीचापस्थानपरिग्रहम् ।। परितः कल्पयेद्धीमान्पूर्वाद्याशावसानकम् ॥ ९ ॥ तद्भा हो त्वीशदिग्भागे श्मशानं परिकल्पयेत् । दक्षिणे चोत्तरे वाऽपि स्थापत्यादिनिवासकम् ।। ९१ ।। तासां बाह्ये तु कर्तव्यं रजकानां निवासकम् । तबाह्ये के(क्रो)शमात्रे तु चण्डालश्रेणिरुच्यते ॥ २ ॥